Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 62

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
स꣡खा꣢यस्त्वा ववृमहे दे꣣वं꣡ मर्ता꣢꣯स ऊ꣣त꣡ये꣢ । अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣द꣡ꣳस꣢सꣳ सु꣣प्र꣡तू꣢र्तिमने꣣ह꣡स꣢म् ॥६२॥

स꣡खा꣢꣯यः । स꣢ । खा꣣यः । त्वा । ववृमहे । देवम्꣢ । म꣡र्ता꣢꣯सः । ऊ꣣त꣡ये꣢ । अ꣣पा꣢म् । न꣣पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दँ꣡ऽस꣢सम् । सु꣣ । दँ꣡स꣢꣯सम् । सु꣣प्र꣡तू꣢र्तिम् । सु꣣ । प्र꣡तू꣢꣯र्त्तिम् । अ꣣नेह꣡स꣢म् । अ꣣न् । एह꣡स꣢म् ॥६२॥

Mantra without Swara
सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपां नपातꣳ सुभगꣳ सुदꣳससꣳ सुप्रतूर्तिमनेहसम् ॥

सखायः । स । खायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये । अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदँऽससम् । सु । दँससम् । सुप्रतूर्तिम् । सु । प्रतूर्त्तिम् । अनेहसम् । अन् । एहसम् ॥६२॥

Samveda - Mantra Number : 62
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मर्तासः) मर्ताः मरणधर्माणः (सखायः) समानख्यातयः सुहृदो वयम्। सखायः समानख्यानाः। निरु० ७।३०। (देवम्) ज्योतिर्मयं ज्योतिष्प्रदं च। दीव्यति प्रकाशते दीवयति प्रकाशयति च यः स देवः। दिवु दीप्त्यर्थः। (अपां नपातम्) अपां व्याप्तानां प्रकृतीनां जीवात्मनां च नपातं न पातयितारम् अविनाशकम् प्रलयकाले जड़चेतनजगद्विनाशेऽपि प्रकृतीनां जीवात्मनां चाविनाशात्, (सुभगम्) उत्तमैश्वर्यवन्तम्, (सुदंससम्) सुकर्माणम्। दंस इति कर्मनाम। निघं० २।१। (सुप्रतूर्तिम्) सुष्ठु प्रकृष्टा तूर्तिः शीघ्रता यस्मिंस्तम्२। तूर्तिः इत्यत्र ञित्वरा संभ्रमे धातोः क्तिनि ज्वरत्वरस्रिव्यविमवा- मुपधायाश्च।’ अ० ६।४।२० इति वकारस्योपधायाश्च स्थाने ऊठ्। (अनेहसम्३) अहन्तव्यं, निष्पापं, सज्जनेषु निष्क्रोधं वा। अत्र नञि हन एह च।’ उ० ४।२२४ इति नञ् पूर्वस्य हन् धातोः असुन् प्रत्ययः धातोश्च एहादेशः। यद्वा एह इति क्रोधनाम। निघं० २।१३। पापनाम च प्रसिद्धम्। (त्वा) त्वाम् परमात्माग्निम् (ऊतये) आत्मरक्षायै प्रगतये वा। अव रक्षणगत्यादिषु, ऊति यूति०।’ अ० ३।३।९७ इति क्तिनि निपात्यते। ऊतिरवनात् इति निरुक्तम् ५।३। (ववृमहे) वृण्महे। वृञ् वरणे, छन्दसि लुङ्लङ्लिटः।’ अ० ३।४।६ इति वर्तमानेऽर्थे लिट् ॥८॥४ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः५ ॥८॥
Essence
कल्याणेच्छुभिर्जनैः संभूय परमतेजोमयस्तेजसां प्रदाता, प्रलयकाले नश्वराणां पदार्थानां विनाशयिता, नित्यानामविनाशकः, सर्वैश्वर्यवान्, सुकर्मा, चिन्तितानां कार्याणां सत्वरं निर्वाहकः, केनापि हन्तुं पराजेतुं वाऽशक्यः, निष्पापः, सत्सु क्रोधस्याकर्ता, दुष्टेषु क्रोधकारी जगद्व्यवस्थापकः, सर्वेषां मङ्गलकरः परमात्मा श्रद्धया समुपासनीयः ॥८॥ अस्यां दशत्यामग्नियूपद्रविणोदोबृहस्पतिनामभिः परमेश्वरस्य गुणकर्मवर्णनात्, तं प्रति समर्पणस्य फलवर्णनाच्चैतदर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ इति प्रथमे प्रपाठके द्वितीयेऽर्धे प्रथमा दशतिः ॥ इति प्रथमेऽध्याये षष्ठः खण्डः ॥
Subject
अथ परमात्मानं वरीतुमाह।
Footnote
१. ऋ० ३।९।१, सुंदससं इत्यत्र सुदीदितिं इति पाठः। २. द्र० ऋ० ३।९।१ द० भा०। तूर्वतिः हिंसार्थः, सुष्ठु प्रकर्षेण हिंसितारं शत्रूणाम्—इति वि०। सुप्रतरणं सूपगमनम्—इति भ०। शोभनप्रतरं कर्मानुष्ठातृभिः सुखेन गन्तव्यम्—इति सा०। ३. अनेहसम् अक्रोधम् अपापमित्यर्थः—इति वि०। अपापं पापानां हन्तारम्—इति भ०। उपद्रवरहितम्—इति सा०। अहन्तारम्—इति ऋग्भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा ऋगेषा विद्वदुपदेशकपक्षे व्याख्याता। ५. विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः। का० प्र० १०।११८ इति तल्लक्षणात्।