Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 619

1875 Mantra
Devata- पुरुषः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
पु꣡रु꣢ष ए꣣वे꣢꣫दꣳ सर्वं꣣ य꣢द्भू꣣तं꣢꣫ यच्च꣣ भा꣡व्य꣢म् । पा꣡दो꣢ऽस्य꣣ स꣡र्वा꣢ भू꣣ता꣡नि꣢ त्रि꣣पा꣡द꣢स्या꣣मृ꣡तं꣢ दि꣣वि꣢ ॥६१९॥

पु꣡रु꣢꣯षः । ए꣣व꣢ । इ꣣द꣢म् । स꣡र्व꣢꣯म् । यत् । भू꣣त꣢म् । यत् । च꣣ । भा꣡व्य꣢꣯म् । पा꣡दः꣢꣯ । अ꣣स्य । स꣡र्वा꣢꣯ । भू꣣ता꣡नि꣢ । त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । अ꣣स्य । अमृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । दि꣣वि꣢ ॥६१९॥

Mantra without Swara
पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥

पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भाव्यम् । पादः । अस्य । सर्वा । भूतानि । त्रिपात् । त्रि । पात् । अस्य । अमृतम् । अ । मृतम् । दिवि ॥६१९॥

Samveda - Mantra Number : 619
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुरुषः एव) सर्वत्र परिपूर्णः परमेश्वरः एव (इदम्) प्रत्यक्षाप्रत्यक्षात्मकम् (सर्वम्) निखिलम् (यत् भूतम्) यद् उत्पन्नम् (यत् च भाव्यम्) यच्च उत्पत्स्यमानम् अस्ति, तत्सर्वम् अधितिष्ठतीति शेषः। (सर्वा) सर्वाणि (भूतानि) उत्पन्नानि सूर्यपृथिव्यादीनि (अस्य) पुरुषाख्यस्य परमेश्वरस्य महिम्नः (पादः) चतुर्थांशमात्रं सन्ति, (अस्य) जगत्स्रष्टुः महिम्नः (त्रिपात्) त्रिचतुर्थांशात्मकं रूपम् (अमृतम्) विनाशरहितं विद्यते, यत् (दिवि) द्योतनात्मके मोक्षलोके मुक्तात्मभिरनुभूयते ॥५॥
Essence
भूतं वर्तमानं भावि च सर्वं पदार्थजातं परमात्मैव रचयति व्यवस्थापयति च। परमात्मनो भौतिकलोकातिगं तात्त्विकं स्वरूपं चर्मचक्षुषा न प्रत्युत आभ्यन्तरचक्षुषैव साक्षात्कर्तुं शक्यते ॥५॥
Subject
अथ पुनरपि स एव परमपुरुषो वर्ण्यते।
Footnote
१. ऋ० १०।९०।२ ‘भाव्यम्’ इत्यत्र ‘भव्यम्’ इति, उत्तरार्द्धे च ‘उतामृतत्वस्येशानो यदन्नेनातिरोहति’ इति पाठः। य० ३१।२ उत्तरार्द्धपाठः ऋग्वेदवत्। अथ० १९।६।४ ‘उतामृतत्वस्येश्वरो यदन्येनाभवत् सह’ इत्युत्तरार्द्धपाठः।