Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 618

1875 Mantra
Devata- पुरुषः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त्रि꣣पा꣢दू꣣र्ध्व꣢꣫ उदै꣣त्पु꣡रु꣢षः꣣ पादो꣢ऽस्ये꣣हा꣡भ꣢व꣣त्पु꣡नः꣢ । त꣢था꣣ वि꣢ष्व꣣꣬ङ् व्य꣢꣯क्रामदशनानश꣣ने꣢ अ꣣भि꣢ ॥६१८॥

त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । ऊ꣣र्ध्वः꣢ । उत् । ऐ꣣त् । पु꣡रु꣢꣯षः । पा꣡दः꣢꣯ । अ꣣स्य । इह꣢ । अ꣣भवत् । पु꣢न꣣रि꣡ति꣢ । त꣡था꣢꣯ । वि꣡ष्व꣢꣯ङ् । वि । स्व꣣ङ् । वि꣢ । अ꣣क्रामत् । अशनानशने꣢ । अ꣣शन । आनशने꣡इति꣢ । अ꣣भि꣢ ॥६१८॥

Mantra without Swara
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । तथा विष्वङ् व्यक्रामदशनानशने अभि ॥

त्रिपात् । त्रि । पात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति । तथा । विष्वङ् । वि । स्वङ् । वि । अक्रामत् । अशनानशने । अशन । आनशनेइति । अभि ॥६१८॥

Samveda - Mantra Number : 618
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्रिपात्) त्रि-चतुर्थाशः (पुरुषः) पूर्वोक्तः परमेश्वरः (ऊर्ध्वः उत्-ऐत्) अस्माज्जगतः ऊर्ध्वम् उद्गतोऽस्ति, (इह पुनः) अस्मिन् संसारे तु (अस्य) पूर्णस्य परमेश्वरस्य (पादः) एकश्चतुर्थांश एव (अभवत्) विद्यते। (तथा) तेनैव प्रकारेण एकचतुर्थांशव्याप्त्या इत्यर्थः (वि-स्वङ्२) विविधपदार्थान् सम्यक् प्राप्तः सन्। वि विविधतया सु सम्यग् अञ्चतीति विष्वङ्। (अशनानशने अभि) चेतनाचेतने अभिलक्ष्य। अश्नाति भोगान् भुङ्क्ते इति अशनं चेतनं तद्भिन्नम् अनशनं, ते अशनानशने। (व्यक्रामत्) विचेष्टते, चेतनाचेतनानां मनुष्यादिप्राणिनाम् अग्निसूर्यपवनगिरिनद्यादीनां च यथायोग्यं प्राणनादिव्यापारं स्थित्यादिव्यापारं च विधत्ते इति भावः ॥४॥३
Essence
चेतनाचेतनात्मकेऽस्मिन् जगति यन्महत् कर्तृत्वं दृष्टिगोचरतां याति तत्र परमेश्वरसामर्थ्यस्य स्वल्पांश एव क्रियाशीलो भवति, परमेश्वरस्य वास्तवं सामर्थ्यं स्वरूपं च लोकातिगं वर्तते ॥४॥
Subject
अथ पुनरपि तमेव परमपुरुषं वर्णयति।
Footnote
१. ऋ० १०।९०।४, य० ३१।४ उभयत्र ‘ततो विष्वङ् व्यक्रामत् साशनानशने अभि’ इति पाठः। अथ० १९।६।२ ‘त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः। तथा व्यक्रामद् विष्वङशनानशने अनु’ ॥ इति पाठः। २. विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति सा०। विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति यजुर्भाष्ये म०। यो विषु सर्वत्राञ्चति प्राप्नोति—इति तत्रैव द०। अस्माभिस्तु वि-स्वङ् इति पदपाठः आदृतः। ३. दयानन्दर्षिरपि मन्त्रमेतं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।