Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 617

1875 Mantra
Devata- पुरुषः Rishi- नारायणः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢ स꣣ह꣡स्र꣢पात् । स꣢꣯ भूमि꣢꣯ꣳ स꣣र्व꣡तो꣢ वृ꣣त्वा꣡त्य꣢तिष्ठद्द꣣शाङ्गुल꣢म् ॥६१७॥

स꣣ह꣡स्र꣢शीर्षाः । स꣣ह꣡स्र꣢ । शी꣣र्षाः । पु꣡रु꣢꣯षः । स꣣हस्राक्षः꣢ । स꣣हस्र । अक्षः꣢ । स꣣ह꣡स्र꣢पात् । स꣣ह꣡स्र꣢ । पा꣣त् । सः꣢ । भू꣡मि꣢꣯म् । स꣣र्व꣡तः꣢ । वृ꣣त्वा꣢ । अ꣡ति꣢꣯ । अ꣣तिष्ठत् । दशाङ्गुल꣢म् । द꣣श । अङ्गुल꣢म् ॥६१७॥

Mantra without Swara
सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥

सहस्रशीर्षाः । सहस्र । शीर्षाः । पुरुषः । सहस्राक्षः । सहस्र । अक्षः । सहस्रपात् । सहस्र । पात् । सः । भूमिम् । सर्वतः । वृत्वा । अति । अतिष्ठत् । दशाङ्गुलम् । दश । अङ्गुलम् ॥६१७॥

Samveda - Mantra Number : 617
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुरुषः) सर्वेषाम् अग्रणीः, सर्वस्मिन् जगति परिपूर्णः, सर्वेषां पालयिता वा परमेश्वरः। पुर अग्रगमने, पॄ पालनपूरणयोः इति वा धातोः ‘पुरः कुषन्’। उ० ४।७५ इति कुषन् प्रत्ययः। (सहस्रशीर्षाः) सहस्राणि असंख्यातानि शीर्षाणि शिर उपलक्षितानि ज्ञानानि यस्य सः। ‘शीर्षंश्छन्दसि’। अ० ६।१।६० इति शिरःशब्दपर्यायः शीर्षन् शब्दो वेदे प्रोक्तः, अत्र तस्य सान्तत्वम्। (सहस्राक्षः२) सहस्राणि (अक्षीणि) दर्शनसामर्थ्यानि यस्य सः। छान्दसः समासान्तोऽच् प्रत्ययः। (सहस्रपात्३) सहस्राणि असंख्याताः पादाः व्याप्तयः यस्य तादृशश्च विद्यते। संख्यासुपूर्वस्य। अ० ५।४।१४० इति पादस्यान्तलोपः। परमेश्वरस्य निरवयवत्वात् अत्र शीर्षशब्देन मस्तिष्कशक्तिः अक्षिशब्देन दर्शनशक्तिः, पादशब्देन च व्यापनशक्तिर्लक्ष्यते। सोऽनन्तबुद्धिरनन्तदर्शनः सर्वव्यापकश्च विद्यते इत्यर्थः। किञ्च (सः) असौ (भूमिम्) पृथिवीम् (सर्वतः) परितः (वृत्वा) आवृत्य (दशाङ्गुलम्४) दश च तानि अङ्गुलानि इन्द्रियाणि तेषां समाहारः दशाङ्गुलम् तत् (अति अतिष्ठत्) अतिक्रम्य तिष्ठति, दशेन्द्रियाणामगोचर इत्यर्थः। न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः (केन० १।३) इत्यादिश्रुतेः ॥३॥५ यास्काचार्यः पुरुषशब्दमेवं निर्वक्ति—पुरुषः पुरुषादः पुरिशयः पूरयतेर्वा। पूरयत्यन्तरित्यन्तः पुरुषमभिप्रेत्य। “यस्मात् परं नापरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चिद्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्” इत्यपि निगमो भवति, इति। निरु० २।३ ॥ अत्र सहस्रशीर्षत्वादिरूपस्य भूमौ सर्वत्र व्यापकत्वरूपस्य च कारणस्य सद्भावेऽपि इन्द्रियगोचरत्वरूपकार्यानुत्पत्तेर्विशेषोक्तिरलङ्कारः ॥३॥
Essence
सर्वविद्यं सर्वद्रष्टारं सर्वव्यापकं सर्वतो भूगोलमावृत्य स्थितं तथापि वाक्चक्षुःश्रोत्रहस्तपादाद्यगोचरं परमपुरुषं परमात्मानं साक्षात्कृत्य सर्वैरनन्तसुखभोगः कार्यः ॥३॥
Subject
अथ पञ्चानां पुरुषो देवता। परमपुरुषं परमात्मानं वर्णयति।
Footnote
१. ऋ० १०।९०।१, ‘सहस्रशीर्षा’, इति ‘सर्वतो’ इत्यत्र च ‘विश्वतो’ इति पाठः। य० ३१।१, ‘सहस्रशीर्षा’ इति, ‘सर्वतो वृत्वा’ इत्यत्र च ‘सर्वतः स्पृत्वा’ इति पाठः। अथ० १९।६।१, ‘सहस्रशीर्षाः’, ‘सर्वतो’ इत्यत्र ‘सहस्रबाहुः’, ‘विश्वतो’ इति च पाठः। २,३. अक्षिग्रहणं सर्वज्ञानेन्द्रियोपलक्षकम्। पादग्रहणं कर्मेन्द्रियोप- लक्षकम्—इति यजुर्भाष्ये म०। ४. दश च तानि अङ्गुलानि दशाङ्गुलानि इन्द्रियाणि। केचिदन्यथा रोचयन्ति दशाङ्गुलप्रमाणं हृदयस्थानम्। अपरे तु नासिकाग्रं दशाङ्गुलमिति शौनकः (उवटकृते यजुर्भाष्ये शौनकनाम्ना उद्धृतम्)। नाभेः सकाशाद् दशाङ्गुलमतिक्रम्य हृदि स्थितः इति तत्रैव महीधरस्य वैकल्पिकोऽर्थः। (दशाङ्गुलम्) पञ्च स्थूलसूक्ष्मभूतानि दश अङ्गुलानि अङ्गानि यस्य तज्जगत्—इति तत्रैव द०। ५. यजुर्भाष्ये दयानन्दर्षिरपि मन्त्रमिमं परमात्मपक्षे व्याख्यातवान्, (पुरुषः) सर्वत्र पूर्णो जगदीश्वर इति।