Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 616

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
व꣣स꣡न्त इन्नु रन्त्यो꣢꣯ ग्री꣣ष्म꣡ इन्नु रन्त्यः꣢꣯ । व꣣र्षा꣡ण्यनु꣢꣯ श꣣र꣡दो꣢ हेम꣣न्तः꣡ शिशि꣢꣯र꣣ इन्नु꣡ रन्त्यः꣢꣯ ॥६१६

व꣣सन्तः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । ग्री꣣ष्मः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । व꣣र्षा꣡णि꣢ । अ꣡नु꣢꣯ । श꣣र꣡दः꣢ । हे꣣मन्तः꣢ । शि꣡शि꣢꣯रः । इत् । र꣡न्त्यः꣢꣯ ॥६१६॥

Mantra without Swara
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६

वसन्तः । इत् । नु । रन्त्यः । ग्रीष्मः । इत् । नु । रन्त्यः । वर्षाणि । अनु । शरदः । हेमन्तः । शिशिरः । इत् । रन्त्यः ॥६१६॥

Samveda - Mantra Number : 616
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
परमेश्वरस्य सृष्टौ (वसन्तः) वसन्तर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति, (ग्रीष्मः) ग्रीष्मर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति। (वर्षाणि अनु) वर्षर्तुदिनानामनन्तरम् (शरदः) शरद्दिवसाः, (हेमन्तः) हेमन्त ऋतुश्चापि रन्त्याः रमणीयाः रमयितारश्च भवन्ति। (शिशिरः) शिशिरर्तुरपि (इत् नु) निश्चयेन (रन्त्यः) रमणीयो रमयिता च भवति। रमु क्रीडायाम् इति धातोः बाहुलकात् त्यन् प्रत्ययः ॥२॥ अत्र ‘इन्नु रन्त्यः’ इत्यस्यावृत्तौ लाटानुप्रासः ॥२॥
Essence
ये परमेश्वरविश्वासिनो भवन्ति ते प्रत्येकमृतुं रमणीयमाह्लाददायकं च मन्यमानास्तज्जनितमानन्दमनुभवन्ति। ये तु ‘अहह, संतापको निदाघः, पङ्कबहुला प्रावृट्, कष्टशीतो हेमन्तः’ इत्यादिप्रकारेण छिद्राण्यन्विष्यन्तः सर्वानेव ऋतून् धिक्कुर्वन्ति ते खलु दुर्भाग्यग्रस्ता एव ॥२॥
Subject
अथ ऋतुर्देवता। सर्वेषामृतूनां रमणीयत्वमाह।