Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 615

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
भ्रा꣡ज꣢न्त्यग्ने समिधान दीदिवो जि꣣ह्वा꣡ च꣢रत्य꣣न्त꣢रा꣣स꣡नि꣢ । स꣡ त्वं नो꣢꣯ अग्ने꣣ प꣡य꣢सा वसु꣣वि꣢द्र꣣यिं꣡ वर्चो꣢꣯ दृ꣣शे꣡ऽदाः꣢ ॥६१५

भ्रा꣡ज꣢꣯न्ती। अ꣣ग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा꣢ । च꣣रति । अन्तः꣢ । आ꣣स꣡नि꣢ । सः । त्वम् । नः꣣ । अग्ने । प꣡य꣢꣯सा । व꣣सुवि꣢त् । व꣣सु । वि꣢त् । र꣣यि꣢म् । व꣡र्चः꣢꣯ । दृ꣣शे꣢ । दाः꣣ ॥६१५॥

Mantra without Swara
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५

भ्राजन्ती। अग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा । चरति । अन्तः । आसनि । सः । त्वम् । नः । अग्ने । पयसा । वसुवित् । वसु । वित् । रयिम् । वर्चः । दृशे । दाः ॥६१५॥

Samveda - Mantra Number : 615
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। हे (समिधान) अतिशयप्रकाशमान, (दीदिवः१) सर्वप्रकाशक अग्ने जगन्नायक परमात्मन् ! त्वत्कृपया (आसनि अन्तः) अस्माकं मुखाभ्यन्तरे (भ्राजन्ती) शोभमाना (जिह्वा) रसना (चरति) रसानास्वादयति शब्दानुच्चारयति च। चर गतौ भक्षणे च, भ्वादिः। (सः) तथाविधः (वसुवित्) ऐश्वर्याणां लम्भकः (त्वम्), हे (अग्ने) परमात्मन् ! (नः) अस्मभ्यम् (पयसा) जलदुग्धघृतादिरसेन सह (रयिम्) धनम्, (दृशे) दर्शनाय। अत्र दृश् धातोः ‘दृशे विख्ये च। अ० ३।४।११’ इति तुमर्थे के प्रत्ययः। (वर्चः) ज्ञानरूपं तेजश्च (दाः) अदाः, प्रत्तवानसि ॥ अथ द्वितीयः—आचार्यपक्षे। आचार्याग्नौ स्वात्मानं होतुं गुरुकुलमागताः समित्पाणयः शिष्या ब्रुवते—हे (समिधान) ज्ञानेन प्रदीप्त, (दीदिवः) ज्ञानेन प्रदीपयितः (अग्ने) विद्वन् आचार्यवर ! तव (आसनि अन्तः) मुखाभ्यन्तरे (भ्राजन्ती) शास्त्रोपदेशप्रदानेन यशोमयी (जिह्वा) रसना (चरति) शब्दोच्चारणाय तालुदन्तादिषु स्थानेषु विचरति। (सः) तादृशो महामहिमशाली, (वसुवित्) विविधविद्याधनप्रदः (त्वम्) हे (अग्ने) आचार्यवर ! (नः) अस्माकम् (दृशे) कर्तव्यदर्शनाय (पयसा) वेदज्ञानरूपदुग्धेन सह (रयिम्) सदाचारसम्पत्तिम् (वर्चः) ब्रह्मवर्चसं च (दाः) प्रदेहि ॥ अथ तृतीयः—राजपक्षे। सिंहासनारूढं राजानं प्रति प्रजानां वचनमिदम्। हे (समिधान) राजोचितप्रतापेन दीप्यमान, (दीदिवः) यशसा प्रजाः प्रदीपयितः (अग्ने) अग्रणीः राजन् ! (आसनि अन्तः) तव शरासने (भ्राजन्ती) भ्राजमाना (जिह्वा) प्रत्यञ्चा (चरति) चलति, आकृष्यते मुच्यते शरानस्यति च। (सः) तादृशः (वसुवित्) प्रजानां निवासप्रदायकः (त्वम्), हे (अग्ने) अग्निवज्जाज्वल्यमान राष्ट्राधिपते ! (दृशे) राष्ट्रस्य ख्यातये (पयसा) दुग्धादिना रसेन सह (रयिम्) धनधान्यादिसम्पदम्, (वर्चः) ब्राह्मं तेजश्च (दाः) देहि ॥ अथ चतुर्थः—यज्ञाग्निपक्षे। यजमाना आहुः—हे (समिधान) प्रदीप्यमान, (दीदिवः) तेजसा प्रदीपयितः (अग्ने) यज्ञवह्ने ! (आसनि अन्तः) यज्ञकुण्डरूपमुखाभ्यन्तरे (राजन्ती) भ्राजमाना (जिह्वा) तव ज्वाला (चरति) लेलायते। (सः) तादृशः (वसुवित्) वसु हविर्धनं विन्दते प्राप्नोतीति तथाविधः (त्वम्), हे अग्ने यज्ञवह्ने ! (पयसा) वृष्टिजलेन सह (रयिम्) सस्यसम्पद्रूपं बलबुद्धिदीर्घायुष्यादिरूपं च धनम्, (दृशे) दर्शनाय (वर्चः) प्रकाशं च (दाः) देहि। यज्ञाग्नौ हवींषि प्रयच्छन्तो वयं वृष्टिं सस्यसम्पदं बलबुद्धिस्वास्थ्यदीर्घायुष्यादिकं च लभेमहीति भावः ॥ उपनिषत्कारेण ऋषिणा वह्नेर्जिह्वा एवं प्रोक्ताः—काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ मु० २।४ इति। वह्नेर्मुख- जिह्वावर्णनाद् असम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥
Essence
यथा जगदीश्वरो मनुष्येभ्यो जलदुग्धघृतज्ञानादिकं यज्ञाग्निश्च वृष्टिजलबलबुद्धिदीर्घायुष्यादिकं प्रयच्छति तथैवाचार्येण शिष्येभ्यो वेदविद्यासदाचारब्रह्मवर्चसादिकं प्रदेयम्, नृपेण च राष्ट्रे ब्रह्मक्षत्रविशामुत्कर्षेण प्रजाः सुखयितव्याः ॥१॥
Subject
तत्राद्याया अग्निर्देवता। अग्निनाम्ना परमेश्वर आचार्यो राजा च सम्बोध्यते।
Footnote
१. दीदिवः प्रकाशमयानन्दप्रद। अत्र दिवु धातोः ‘छन्दसि लिट्’। अ० ३।२।१०५ इति लिट्, ‘क्वसुश्च’। अ० ३।२।१०७ इति लिटः स्थाने क्वसुः, छन्दस्युभयथा। अ० ३।४।११७ इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः, ‘तुजादीनां दीर्घोऽभ्यासस्य’। अ० ६।१।७ इत्यभ्यासदीर्घः, ‘मतुवसो रु सम्बुद्धौ छन्दसि’। अ० ८।३।१ इति रुरादेशश्च—इति य० ३।२६ भाष्ये द०।