Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 614

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
पा꣢त्य꣣ग्नि꣢र्वि꣣पो꣡ अग्रं꣢꣯ प꣣दं꣢꣯ वेः पाति꣢꣯ य꣣ह्व꣡श्चर꣢꣯ण꣣ꣳ सू꣡र्य꣢स्य । पा꣢ति꣣ ना꣡भा꣢ स꣣प्त꣡शी꣢र्षाणम꣣ग्निः꣡ पाति꣢꣯ दे꣣वा꣡ना꣢मुप꣣मा꣡द꣢मृ꣣ष्वः꣢ ॥६१४॥

पा꣡ति꣢꣯ । अ꣣ग्निः꣢ । वि꣣पः꣢ । अ꣡ग्र꣢꣯म् । प꣣द꣢म् । वेः । पा꣡ति꣢꣯ । य꣣ह्वः꣢ । च꣡र꣢꣯णम् । सू꣡र्य꣢꣯स्य । पा꣡ति꣢꣯ । ना꣡भा꣢꣯ । स꣣प्त꣡शी꣢र्षाणम् । स꣣प्त꣢ । शी꣣र्षाणम् । अग्निः꣢ । पा꣡ति꣢꣯ । दे꣣वा꣡ना꣢म् । उ꣣पमा꣡द꣢म् । उ꣣प । मा꣡द꣢꣯म् । ऋ꣣ष्वः꣢ ॥६१४॥

Mantra without Swara
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणꣳ सूर्यस्य । पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥

पाति । अग्निः । विपः । अग्रम् । पदम् । वेः । पाति । यह्वः । चरणम् । सूर्यस्य । पाति । नाभा । सप्तशीर्षाणम् । सप्त । शीर्षाणम् । अग्निः । पाति । देवानाम् । उपमादम् । उप । मादम् । ऋष्वः ॥६१४॥

Samveda - Mantra Number : 614
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विपः२) मेधावी। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (अग्निः) अग्रणीः। जगदीश्वरः (वेः) पक्षिणः, गन्तुः पवनस्य वा। विः इति शकुनिनाम, वेतेर्गतिकर्मणः। निरु० २।६। (अग्रम्) अग्रगन्तृ (पदम्) उड्डयनं गमनं वा। पद गतौ, दिवादिः। (पाति) रक्षति। (यह्वः) स एव महान् जगदीश्वरः। यह्वः इति महन्नाम। निघं० ३।३। यह्व इति महतो नामधेयम्, यातश्च हूतश्च भवति। निरु० ८।८। (सूर्यस्य) आदित्यस्य (चरणम्) संवत्सरचक्रप्रवर्तनादिव्यापारम् (पाति) रक्षति। (अग्निः) स एव अग्रणीः जगदीश्वरः (नाभा) नाभौ, केन्द्रभूते हृदये मस्तिष्के वा। नाभिशब्दात् ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (सप्तशीर्षाणम्३) सप्त शिरांसि शीर्षण्या प्राणाः मनोबुद्धिज्ञानेन्द्रियरूपाः यस्य तं जीवात्मानम्। अत्र ‘शीर्षंश्छन्दसि। अ० ६।१।६०’ इति शिरसः शीर्षन्नादेशः। (पाति) रक्षति। (ऋष्वः) स एव दर्शनीयः जगदीश्वरः। ऋषी गतौ तुदादिः, दर्शनार्थोऽप्ययं दृश्यते। तथा च निरुक्तम् ऋषिर्दर्शनात् २।१। इति। (देवानाम्) विदुषाम् (उपमादम्) यज्ञम्। उपेत्य माद्यन्ति हृष्यन्ति विद्वांसः अत्र इति उपमादो यज्ञः। (पाति) रक्षति ॥१३॥४ अत्र ‘पाति’ इत्यस्यासकृदावृत्तौ लाटानुप्रासोऽलङ्कारः। पुनः पुनः ‘पाति’ इति कथनाद् अन्येषामपि कर्माणि स पातीति सूच्यते। पूर्वार्द्धे पठितम् अग्निपदम् उत्तरार्द्धे पुनरावृत्तं सद् उत्तरार्द्धस्य पृथगर्थयोजनाद्योतकम् ॥१३॥
Essence
जगदीश्वर एव सूर्यवायुपृथिवीचन्द्रादीनां, जीवात्ममनोबुद्धि प्राणे- न्द्रियादीनां, सर्वेषां विद्वज्जनानां च यज्ञमयस्य व्यापारस्य रक्षको जायते ॥१३॥ अत्र प्रजापतिसोमाग्न्यपांनपादिन्द्रनामभिर्जगदीश्वरमहिमवर्णनाद् वर्चोयशःप्रार्थनाद् दिव्यरात्रिवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति बोध्यम् ॥ इति षष्ठे प्रपाठके तृतीयार्धे तृतीया दशतिः ॥ इति षष्ठेऽध्याये तृतीयः खण्डः ॥
Subject
अथ जगदीश्वरस्य महिमानं वर्णयति।
Footnote
१. ऋ० ३।५।५, ‘पात्यग्निर्विपो’ इत्यत्र ‘पाति प्रियं रिपो’ इति पाठः। २. सायणस्तु ऋग्वेदे ‘रिपः’ इति पाठात् ‘रिपः’ इत्यस्य च निघण्टौ पृथिवीनामसु दर्शनाद् ‘वेः गन्त्र्याः सर्वत्र व्याप्तायाः विपः रिपः भूम्याः अग्रं मुख्यं पदं स्थानं पाति रक्षति’ इत व्याचष्टे। ‘विविधं पातीति विपो मेधावी’, इति य० ७।१७ भाष्ये द०। ३. नाभौ अन्तरिक्षस्य मध्ये सप्तशीर्षाणं सप्तगणं मरुद्गणम् इति सा०। (नाभा) मध्ये वर्तमानेऽन्तरिक्षे (सप्तशीर्षाणम्) सप्तविधानि शिरांसि किरणा यस्मिंस्तम् (सूर्यमण्डलम्) इति ऋग्भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘हे विद्वन्, यथा वह्निर्गतिमतां पृथिव्यादीनां रक्षाप्रकाशनिमित्तेन रक्षको वर्तते तथा त्वं सर्वेषां रक्षको भवेः’ इत्यर्थे व्याख्यातवान्।