Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 613

1875 Mantra
Devata- आत्मा अग्निर्वा Rishi- विश्वामित्रो गाथिनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣣ग्नि꣡र꣢स्मि꣣ ज꣡न्म꣢ना जा꣣त꣡वे꣢दा घृ꣣तं꣢ मे꣣ च꣡क्षु꣢र꣣मृ꣡तं꣢ म आ꣣स꣢न् । त्रि꣣धा꣡तु꣢र꣣र्को꣡ रज꣢꣯सो वि꣣मा꣡नोऽज꣢꣯स्रं꣣ ज्यो꣡ति꣢र्ह꣣वि꣡र꣢स्मि꣣ स꣡र्व꣢म् ॥६१३॥

अ꣣ग्निः꣢ । अ꣣स्मि । ज꣡न्म꣢꣯ना । जा꣣त꣡वे꣢दाः । जा꣣त꣢ । वे꣣दाः । घृत꣢म् । मे꣣ । च꣡क्षुः꣢꣯ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । मे꣣ । आस꣢न् । त्रि꣣धा꣡तुः꣢ । त्रि꣣ । धा꣡तुः꣢꣯ । अ꣣र्कः꣢ । र꣡ज꣢꣯सः । वि꣣मा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ज꣢꣯स्रम् । अ । ज꣣स्रम् । ज्यो꣡तिः꣢꣯ । ह꣣विः꣢ । अ꣣स्मि । स꣡र्व꣢꣯म् ॥६१३॥

Mantra without Swara
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् ॥

अग्निः । अस्मि । जन्मना । जातवेदाः । जात । वेदाः । घृतम् । मे । चक्षुः । अमृतम् । अ । मृतम् । मे । आसन् । त्रिधातुः । त्रि । धातुः । अर्कः । रजसः । विमानः । वि । मानः । अजस्रम् । अ । जस्रम् । ज्योतिः । हविः । अस्मि । सर्वम् ॥६१३॥

Samveda - Mantra Number : 613
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। अहं परमेश्वरः (अग्निः अस्मि) सर्वेषामग्रणीत्वाद् अग्निवत् प्रकाशकत्वाच्च अग्निनामा वर्ते, (जन्मना) स्वरूपेणैव (जातवेदाः) सर्वज्ञः, सर्वव्यापकः, वेदानां प्रकाशकः, सर्ववित्तोत्पादकश्च अस्मि। (मे) मम (चक्षुः) चक्षुरुपलक्षितं दर्शनसामर्थ्यम् (घृतम्) अतीव प्रदीप्तं तीव्रं वा वर्तते। (घृ) क्षरणदीप्त्योः, अत्र दीप्त्यर्थः। (मे) मम (आसन्) आसनि मुखे। अत्र ‘सुपां सुलुक्। अ० ७।१।३९’ इति विभक्तेर्लुक्। (अमृतम्) अमृतरसः सदा विद्यमानो भवति, नित्यमहम् अमृतत्वमास्वादयामि, अमरोऽस्मीत्यर्थः। अहम् (त्रिधातुः) त्रयः धातवः क्रियाः सृष्टिस्थितिसंहृतयः यस्मात् तादृशः, (अर्कः) अर्चनीयः। अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५। (रजसः) सूर्यचन्द्रतारापृथिव्यादिलोकसमूहस्य। लोका रजांस्युच्यन्ते। निरु० ४।१९। (विमानः२) निर्माता अधिष्ठाता वा, (अजस्रं ज्योतिः) अक्षयं तेजः, अक्षयतेजोमयः इत्यर्थः, (हविः) सर्वेषाम् आह्वानयोग्यः। आहूयते इति हविः। ‘अर्चिशुचिहुसृ०। उ० २।११०’ इति हु धातोः इसि प्रत्ययः प्रोक्तः, स ह्वेञ् धातोरपि ज्ञेयः। ‘बहुलं छन्दसि। अ० ६।१।३४’ इति ह्वः सम्प्रसारणम्। (सर्वम्) सर्वशक्तिमांश्च (अस्मि) वर्ते ॥ अत्र ‘अमरोऽस्मि’ इति व्यङ्ग्यार्थस्यैव ‘अमृतं म आसन्’ इति भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तालङ्कारः३ ॥ अथ द्वितीयः—जीवात्मपरः। देहधारी जीवात्मा ब्रवीति—अहम् (अग्निः अस्मि) वह्निः अस्मि, वह्निरिव प्रकाशको दुर्गुणानां दुर्जनानां च दाहकः अस्मि, (जन्मना) आचार्यगर्भाद् द्वितीयजन्मप्राप्तेरारभ्यैव (जातवेदाः) प्राप्तवेदविज्ञानः अस्मि। (मे चक्षुः) मम चक्षुषि (घृतम्) स्नेहः अस्ति, सर्वानहं स्निग्धेन चक्षुषा पश्यामीत्यर्थः। (मे आसन्) मम मुखे (अमृतम्) पीयूषं, वाङ्माधुर्यं विद्यते। चक्षुः, आसन् इत्युभयत्र ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। अहम् (त्रिधातुः) सत्त्वरजस्तमो-जाग्रत्स्वप्नसुषुप्तितपःस्वाध्यायेश्वरप्रणिधानऋग्यजुः- सामादिरूपत्रिधातुमयः, (अर्कः) परमेश्वरस्य (अर्चकः), सदाचारिणां विद्यावयोवृद्धानां च सत्कर्ता, सूर्यसमतेजस्कः, (रजसः) ग्रहोपग्रहसूर्यादिलोकानाम् (विमानः) परिमाणादिकरणे समर्थः, (अजस्रं ज्योतिः) अक्षयज्योतिर्मयः, (सर्वं हविः) सदुद्देश्याय सर्वस्वबलिदानकर्ता च (अस्मि) वर्ते ॥१२॥४ अत्र ‘अग्निः (वह्निः) अस्मि, अर्कः (सूर्यः) अस्मि’ इति रूपकालङ्कारः। ‘अजस्रं ज्योतिः’ इत्यस्य अजस्रज्योतिर्मये लक्षणा। एवं ‘सर्वं हविः’ इत्यस्य सर्वस्वहविर्दातरि लक्षणा। निरुक्तप्रोक्तासु त्रिविधासु ऋक्षु आध्यात्मिकीयम् ऋक् ॥१२॥
Essence
परमेश्वर इव मनुष्यस्यात्मापि बहुविशिष्टगुणो महाशक्तिसम्पन्नश्च वर्तते। तेन महत्त्वाकाङ्क्षिणा भूत्वा महत्सु कर्मसु पदं निधेयम् ॥१२॥
Subject
अथ द्वयोरग्निर्देवता। अत्र परमात्मा जीवात्मा च स्वपरिचयं ददाति।
Footnote
१. ऋ० ३।२६।७, य० १८।६६, उभयत्र ‘अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम’ इति पाठः। यजुषि देवश्रवोदेववातौ ऋषी। २. ‘रजसो विमानः, रज उदकं तस्य निर्माता। विमिमीते इति विमानः। नन्द्यादित्वात् कर्तरि ल्युट्’ इति य० १८।६६ भाष्ये महीधरः। विमानः विमाता अधिष्ठातास्मि—इति सा०। ३. पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते (सा० द० १०।६०) इति तल्लक्षणात्। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ‘विद्युद्वद् मनुष्यैर्वर्तितव्यम्’ इति विषये, यजुर्भाष्ये च ‘यज्ञेन किं जायते’ इति विषये व्याख्यातवान्।