Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 612

1875 Mantra
Devata- इन्द्रः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
इ꣡न्द्र꣢स्य꣣ नु꣢ वी꣣꣬र्या꣢꣯णि꣣ प्र꣡वो꣢चं꣣ या꣡नि꣢ च꣣का꣡र꣢ प्रथ꣣मा꣡नि꣢ व꣣ज्री꣢ । अ꣢ह꣣न्न꣢हि꣣म꣢न्व꣣प꣡स्त꣢तर्द꣣ प्र꣢ व꣣क्ष꣡णा꣢ अभिन꣣त्प꣡र्व꣢तानाम् ॥६१२॥

इ꣡न्द्र꣢꣯स्य । नु । वी꣣र्या꣢꣯णि । प्र । वो꣣चम् । या꣡नि꣢꣯ । च꣣का꣡र꣢ । प्र꣣थमा꣡नि꣢ । व꣣ज्री꣢ । अ꣡ह꣢꣯न् । अ꣡हि꣢꣯म् । अ꣡नु꣢꣯ । अ꣣पः꣢ । त꣣तर्द । प्र꣢ । व꣣क्ष꣡णाः꣢ । अ꣣भिनत् । प꣡र्व꣢꣯तानाम् ॥६१२॥

Mantra without Swara
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री । अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥

इन्द्रस्य । नु । वीर्याणि । प्र । वोचम् । यानि । चकार । प्रथमानि । वज्री । अहन् । अहिम् । अनु । अपः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥६१२॥

Samveda - Mantra Number : 612
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मसूर्यविद्युत्परः। अहम् (इन्द्रस्य) वीरस्य परमात्मनः, पदार्थविच्छेदकस्य सूर्यस्य, परमैश्वर्यसाधनभूतायाः विद्युतो वा (नु) शीघ्रम् (वीर्याणि) सृष्ट्युत्पत्तिस्थितिसंहारादिरूपाणि, आकर्षणप्रकाशनादिरूपाणि, भूजलान्तरिक्षयानयन्त्रसञ्चालनरूपाणि वा वीरकर्माणि (प्रवोचम्) वर्णयामि, (यानि प्रथमानि) यानि उत्कृष्टानि कर्माणि सः (वज्री) शक्तिधरः (चकार२) करोति। तेषामेव वीरकर्मणामन्यतमम् आह—स परमात्मा, स सूर्यः, सा विद्युद् वा (अहिम्) अन्तरिक्षस्थं मेघम्। अहिरिति मेघनाम। निघं० १।१०। (अहन्) हन्ति, (अपः) मेघस्थानि उदकानि (अनु ततर्द) तर्दनेन अधः पातयति (पर्वतानाम्) गिरीणाम् (वक्षणाः३) नदीः। वक्षणाः इति नदीनामसु पठितम्। निघं० १।१३। (प्र अभिनत्) हिमभेदनेन प्रवाहयति। अत्र प्रवोचम्, अहन्, अनुततर्द, प्र अभिनत् इति लुङ्-लङ्-लिट्प्रयोगाः सामान्यकाले विज्ञेयाः ‘छन्दसि लुङ्लङ्लिटः। अ० ३।४।६’ इति पाणिनिप्रामाण्यात् ॥ अथ द्वितीयः—राष्ट्रपरः। अहम् (इन्द्रस्य) शत्रुविदारकस्य नृपतेः (नु) सद्यः (वीर्याणि) वीरतापूर्णानि कर्माणि शत्रुविजयराष्ट्रनिर्माणादीनि (प्रवोचम्) प्रकृष्टतया वर्णयामि, (यानि प्रथमानि) यानि श्रेष्ठानि कर्माणि (वज्री) असिभुशुण्डीशतघ्नीगोलाकादिशस्त्रास्त्रयुक्तः सः (चकार) कृतवान् करोति च। सः (अहिम्) अहिवत् कुटिलगामिनं विषधरं राष्ट्रोन्नतौ बाधकं शत्रुम् (अहन्) हन्ति, (अपः) जलवत् प्रवहणशीलानि शत्रुदलानि, (ततर्द) तृणत्ति, (पर्वतानाम्) दुर्गाणाम् (वक्षणाः) सेनाः। नदीवाचिनः शब्दाः सेनावाचका अपि भवन्ति। अभिनत् भिनत्ति ॥११॥४
Essence
यथा परमेश्वरः सूर्यद्वाराऽऽकाशीयविद्युद्द्वारा वा मेघं हत्वाऽवरुद्धानि जलान्यधः पातयति नदींश्च प्रवाहयति, तथैव राष्ट्रस्य राजा विघ्नकारिणः शत्रून् हत्वा दुर्गस्था अपि सेनाः पराजित्य राष्ट्रे सकलान्यैश्वर्याणि प्रवाहयेत् ॥११॥
Subject
अथेन्द्रो देवता। इन्द्रनाम्ना परमात्मनृपत्यादेर्वीर्याणि वर्ण्यन्ते।
Footnote
१. ऋ० १।३२।१, अथ० २।५।५ ऋषिः भृगुराथर्वणः। २. (चकार) कृतवान् करोति करिष्यति वा। अत्र सामान्यकाले लिट् इति ऋ० १।३२।१ भाष्ये द०। ३. (वक्षणाः) वहन्ति जलानि यास्ताः नद्यः इति तत्रैव द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्योपमानेन राजपरो व्याख्यातः—‘(इन्द्रस्य) सर्वपदार्थविदारकस्य सूर्यलोकस्येव सभापते राज्ञः (वीर्याणि) आकर्षणप्रकाशयुक्तादिवत् कर्माणि’ इत्यादि।