Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 611

1875 Mantra
Devata- लिंगोक्ताः Rishi- वामदेवो गौतमः Chhand- महा पङ्क्तिः Swara- पञ्चमः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
य꣡शो꣢ मा꣣ द्या꣡वा꣢पृथि꣢वी꣢꣯ यशो꣢꣯ मेन्द्रबृहस्प꣣ती꣢ । य꣢शो꣣ भ꣡ग꣢स्य विन्दतु꣣ य꣡शो꣢ मा꣣ प्र꣡ति꣢मुच्यताम् । य꣣शसा꣢३स्याः꣢ स꣣ꣳ स꣢दो꣣ऽहं꣡ प्र꣢वदि꣣ता꣡ स्या꣢म् ॥६११॥

य꣡शः꣢꣯ । मा꣣ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । य꣡शः꣢꣯ । मा꣣ । इन्द्रबृहस्पती꣢ । इ꣣न्द्र । बृहस्पती꣡इति꣢ । य꣡शः꣢꣯ । भ꣡ग꣢꣯स्य । वि꣣न्दतु । य꣡शः꣢꣯ । मा꣣ । प्र꣡ति꣢꣯ । मु꣣च्यताम् । यशस्वी꣢ । अ꣣स्याः꣢ । सं꣣ऽस꣡दः꣢ । स꣣म् । स꣡दः꣢ । अ꣣ह꣢म् । प्र꣣वदिता꣢ । प्र꣣ । वदिता꣢ । स्या꣣म् ॥६११॥

Mantra without Swara
यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती । यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । यशसा३स्याः सꣳ सदोऽहं प्रवदिता स्याम् ॥

यशः । मा । द्यावा । पृथिवीइति । यशः । मा । इन्द्रबृहस्पती । इन्द्र । बृहस्पतीइति । यशः । भगस्य । विन्दतु । यशः । मा । प्रति । मुच्यताम् । यशस्वी । अस्याः । संऽसदः । सम् । सदः । अहम् । प्रवदिता । प्र । वदिता । स्याम् ॥६११॥

Samveda - Mantra Number : 611
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्यावापृथिवी) द्यावाभूमी प्राणापानौ मातापितरौ सभासमिती वा (मा) माम् (यशः) कीर्तिं प्रापयताम्, (इन्द्रबृहस्पती) विद्युद्वायू परमात्मजीवात्मानौ क्षत्रियब्राह्मणौ वा (मा) माम् (यशः) कीर्तिं प्रापयताम्। (भगस्य) रजतसुवर्णमणिमुक्तादिरूपस्य सत्याहिंसास्तेयज्ञानवैराग्यादिरूपस्य सुराज्यचक्रवर्तिराज्यादिरूपस्य च धनस्य (यशः) कीर्तिः (विन्दतु) मां प्राप्नोतु। (यशः) सर्वविधा कीर्तिः (मा२) माम् (प्रतिमुच्यताम्) धारयतु। मुच्लृ मोचने तुदादौ पठ्यते, बाहुलकादत्र दिवादिः प्रयुक्तः, प्रतिपूर्वश्च धारणार्थेऽपि वर्तते।३ (अहम्) प्रार्थी (अस्याः) एतस्याः (संसदः) परिषदः (यशस्वी) कीर्तिशाली (प्रवदिता) वक्ता (स्याम्) भूयासम् ॥१०॥ अत्र ‘यशः’ इत्यस्य पुनःपुनरावृत्त्या यशसो बहुस्पृहणीयत्वं सूच्यते। ‘यशो’ इत्यस्य चतुःकृत्वः ‘यशो मा’ इत्यस्य च द्विरावृत्तौ लाटानुप्रासः ॥१०॥
Essence
ब्रह्माण्डे द्यावापृथिव्यौ, देहे प्राणापानौ, समाजे मातापितरौ, राष्ट्रे सभासमित्यौ स्वस्वयशसा यथा भासेते, यथा च परमात्मजीवात्मनोर्विद्युत्पवनयोर्ब्राह्मणक्षत्रिययोश्च यशः सर्वत्र व्याप्तं, तथैव वयमपि धनधान्यज्ञानस्वास्थ्यदीर्घायुष्यचक्रवर्ति- राज्याध्यात्मयोगादिसम्पद्भिः परमकीर्तिशालिनो विविधानां परिषदां यशस्विनो वक्तारश्च भूयास्म ॥१०॥
Subject
अथ मन्त्रोक्ता द्यावापृथिव्यादयो देवताः। यशः प्रार्थ्यते।
Footnote
१. ‘य꣣शसा꣢३स्याः꣢’ इति पाठभेदः। २. कैश्चित्तु ‘यशो मा प्रतिमुच्यताम्’ यशो न मत्सकाशान्मुक्तं भवतु इत्यर्थं मनसि निधाय ‘मा’ इति प्रतिषेधार्थो गृहीतः, तच्चिन्त्यं स्वरविरोधात्। ३. यथा यज्ञोपवीतधारणमन्त्रे ‘आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः’ (पार० गृह्य० २।२।११) इति।