Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 610

1875 Mantra
Devata- विश्वे देवाः Rishi- ऋजिश्वा भारद्वाजः Chhand- जगती Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
वि꣡श्वे꣢ दे꣣वा꣡ मम꣢꣯ शृण्वन्तु य꣣ज्ञ꣢मु꣣भे꣢꣯ रोद꣢꣯सी अ꣣पां꣢꣯ नपा꣢꣯च्च꣣ म꣡न्म꣢ । मा꣢ वो꣣ व꣡चा꣢ꣳसि परि꣣च꣡क्ष्या꣢णि वोचꣳ सु꣣म्ने꣢꣫ष्विद्वो꣣ अ꣡न्त꣢मा मदेम ॥६१०॥

वि꣡श्वे꣢꣯ । दे꣣वाः꣢ । म꣡म꣢꣯ । शृ꣣ण्वन्तु । यज्ञ꣢म् । उ꣣भे꣡इति꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣पा꣢म् । न꣡पा꣢꣯त् । च । मन्म꣢ । मा । वः꣣ । व꣡चाँ꣢꣯सि । प꣣रिच꣡क्ष्या꣢णि । प꣣रि । च꣡क्ष्या꣢꣯णि । वो꣣चम् । सुम्ने꣡षु꣢ । इत् । वः꣣ । अ꣡न्त꣢꣯माः । म꣣देम ॥६१०॥

Mantra without Swara
विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म । मा वो वचाꣳसि परिचक्ष्याणि वोचꣳ सुम्नेष्विद्वो अन्तमा मदेम ॥

विश्वे । देवाः । मम । शृण्वन्तु । यज्ञम् । उभेइति । रोदसीइति । अपाम् । नपात् । च । मन्म । मा । वः । वचाँसि । परिचक्ष्याणि । परि । चक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥६१०॥

Samveda - Mantra Number : 610
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमोऽध्यात्मविषयकः। (विश्वे देवाः) ज्ञानप्रकाशकाः शरीरस्थाः सर्वे मनोबुद्धिज्ञानेन्द्रियरूपाः देवाः, (उभे रोदसी) उभौ प्राणापानौ, (अपां२ नपात् च) प्राणानां न पातयिता जीवात्मा परमेश्वरश्च (मम) मदीयम् (यज्ञम्) विषयेन्द्रियसंसर्गेण प्राप्यम् (मन्म) विज्ञानम् (शृण्वन्तु) पूरयन्तु। श्रवणार्थानां धातूनां पूरणार्थे बहुधा प्रयोगदर्शनात्। हे शरीरस्थाः देवाः ! (वः) युष्मदर्थम् अहम् (परिचक्ष्याणि) निन्द्यानि (वचांसि) वचनानि (मा वोचम्) न कथयेयम्—अहो, कुण्ठितं मदीयं मनः, कुण्ठिता बुद्धिः, अशक्तानि इन्द्रियाणि इत्यादिप्रकारेण निराशावचनानि नोच्चारयेयम्, प्रत्युत युष्मच्छक्तेर्गुणगानपूर्वकं युष्मत्सकाशादधिकाधिकं लाभं प्राप्नुयाम्। वयं सर्वेऽपि (वः) युष्माकं, पूर्वोक्तानां मनोबुद्धीन्द्रियप्राणजीवात्मनाम् (अन्तमाः३) निकटतमाः सन्तः (सुम्नेषु) युष्मत्प्रदत्तेषु सुखेषु (मदेम) तृप्येम ॥ अथ द्वितीयः—राष्ट्रविषयकः। (विश्वे देवाः) सर्वे विद्वांसः, (उभे रोदसी) उभे राजपरिषदौ—सभा समितिश्च। स॒भा च॑ मा॒ समि॑तिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ संविदा॒ने। अथर्व० ७।१२।१ इति मन्त्रोक्ते। (अपां नपात् च) प्रजानां न पातयिता राजा च (मम) मदीयम् (यज्ञम्) राष्ट्रयज्ञविषयकम् (मन्म) विचारम् (शृण्वन्तु) आकर्णयन्तु। हे उक्ताः देवाः ! (वः) युष्मदर्थम्, अहम् (परिचक्ष्याणि) निन्द्यानि (वचांसि) वचनानि (मा वोचम्) न प्रोच्चारयेयम्। वयम् (वः) युष्माकम् (अन्तमाः) अन्तिकतमाः सन्तः (सुम्नेषु) युष्मत्प्रदत्तेषु सुखेषु (मदेम) आनन्देम ॥९॥४ अत्र श्लेषालङ्कारः ॥९॥
Essence
मनुष्यैः शरीरस्थानां देवानामात्ममनोबुद्धिप्राणेन्द्रियाणां, राष्ट्रस्थानां च देवानां विद्वदमात्यन्यायाधीशनृपत्यादीनां साहाय्येन सर्वविधः समुत्कर्षः साधनीयः ॥९॥
Subject
अथ विश्वेदेवाः देवताः। तान् प्रत्युच्यते।
Footnote
१. ऋ० ६।५२।१४, ऋषिः ऋजिश्वा, ‘यज्ञमुभे’ इत्यत्र ‘यज्ञिया उभे’ इति पाठः। २. (अपाम्) प्राणानाम् (नपात्) अनाशकम् (मन्म) विज्ञानम् इति ऋ० ६।५२।१४ भाष्ये द०। ३. “अन्तः सामीप्यमेषामस्ति ते ऽन्तिकाः, अतिशयेनान्तिका अन्तमाः। अत्रान्तिकशब्दात् तमपि कृते पृषोदरादित्वात् तिकलोपः। अन्तमानाम् इत्यन्तिकनामसु पठितम्। निघं० २।१६” इति ऋ० १।४।३ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्परो व्याख्यातः।