Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 609

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- जगती Swara- निषादः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
प्र꣣क्ष꣢स्य꣣ वृ꣡ष्णो꣢ अरु꣣ष꣢स्य꣣ नू꣢꣫ महः꣣ प्र꣢ नो꣣ व꣡चो꣢ वि꣣द꣡था꣢ जा꣣त꣡वे꣢दसे । वै꣣श्वानरा꣡य꣢ म꣣ति꣡र्नव्य꣢꣯से꣣ शु꣢चिः꣣ सो꣡म꣢ इव पवते꣣ चा꣡रु꣢र꣣ग्न꣡ये꣢ ॥६०९॥

प्र꣣क्ष꣡स्य꣢ । प्र꣣ । क्ष꣡स्य꣢꣯ । वृ꣡ष्णः꣢꣯ । अ꣣रुष꣡स्य꣢ । नु । म꣡हः꣢꣯ । प्र । नः꣣ । व꣡चः꣢꣯ । वि꣣द꣡था꣢ । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । वैश्वानरा꣡य꣢ । वै꣣श्व । नरा꣡य꣢ । म꣣तिः꣢ । न꣡व्य꣢꣯से । शु꣡चिः꣢꣯ । सो꣡मः꣢꣯ । इ꣣व । पवते । चा꣡रुः꣢꣯ । अ꣣ग्न꣡ये꣢ ॥६०९॥

Mantra without Swara
प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥

प्रक्षस्य । प्र । क्षस्य । वृष्णः । अरुषस्य । नु । महः । प्र । नः । वचः । विदथा । जातवेदसे । जात । वेदसे । वैश्वानराय । वैश्व । नराय । मतिः । नव्यसे । शुचिः । सोमः । इव । पवते । चारुः । अग्नये ॥६०९॥

Samveda - Mantra Number : 609
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रक्षस्य) सर्वैः पदार्थैः संपृक्तस्य, सर्वव्यापकस्य। पृची सम्पर्के, बाहुलकाद् औणादिकः सः प्रत्ययः। (वृष्णः) सुखादिवर्षकस्य, (अरुषस्य) आरोचमानस्य वैश्वानरस्य परमात्मनः। अरुषीः आरोचनात् इति निरुक्तम्। १२।७। (नु) निश्चयेन (महः) अतीव महत्त्वं पूज्यत्वं वा वर्तते। महि वृद्धौ, मह पूजायाम्। (विदथा) विदथे ज्ञानयज्ञे। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (जातवेदसे) सर्वेषाम् उत्पन्नपदार्थानां ज्ञात्रे तस्मै वैश्वानराय परमात्मने (नः वचः) अस्माकं स्तुतिवचनम् (प्र) प्रपवते प्रकर्षेण गच्छति। किञ्च (नव्यसे) नवीयसे (वैश्वानराय) सर्वजनहितकराय तस्मै (अग्नये) अग्रनायकाय परमात्मने, अस्माकम् (शुचिः) पवित्रा, (चारुः) रम्या (मतिः) बुद्धिः, विचारसरणिः (पवते) प्रवृत्ता भवति। कथमिव ? (इव) यथा (शुचिः) पवित्रः (चारुः) मनोज्ञः (सोमः) सोमौषधिरसः (पवते) द्रोणकलशं गन्तुं प्रवाहितो भवति, यद्वा, यथा (शुचिः) प्रदीप्तः (चारुः) आह्लादकः (सोमः) चन्द्रः (वैश्वानराय) सूर्याय, सूर्यं परितः इत्यर्थः (पवते) अन्तरिक्षे गच्छति ॥८॥२ अत्रोपमालङ्कारः ॥८॥
Essence
सर्वान्तर्यामिणं सुखवर्षकं तेजस्विनं सर्वज्ञं सर्वजनहितकारिणं मार्गदर्शकं परमेश्वरं प्रति सुस्तोत्राणि सर्वैः प्रवर्तनीयानि ॥८॥
Subject
अथ वैश्वानरोऽग्निर्देवता। परमेश्वरं प्रति स्तुतिवचांसि गच्छन्तीत्याह।
Footnote
१. ऋ० ६।८।१, ‘प्रक्षस्य’, ‘महः प्र नो वचो’, ‘जातवेदसे’, ‘नव्यसे’ इत्यत्र क्रमेण ‘पृक्षस्य’, ‘सहः प्र नु वोचं’, ‘जातवेदसः’, ‘नव्यसी’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् अग्निविद्यापक्षे व्याख्यातवान्।