Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 608

1875 Mantra
Devata- रात्रिः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
आ꣡ प्रागा꣢꣯द्भ꣣द्रा꣡ यु꣢व꣣ति꣡रह्नः꣢꣯ के꣣तू꣡न्त्समी꣢꣯र्त्सति । अ꣡भू꣢द्भ꣣द्रा꣡ नि꣣वे꣡श꣢नी꣣ वि꣡श्व꣢स्य꣣ ज꣡ग꣢तो꣣ रा꣡त्री꣢ ॥६०८

आ꣢ । प्र । आ । अ꣣गात् । भद्रा꣢ । यु꣣वतिः । अ꣡ह्नः꣢꣯ । अ । ह्नः꣣ । केतू꣢न् । सम् । ई꣣र्त्सति । अ꣡भू꣢꣯त् । भ꣣द्रा꣢ । नि꣣वे꣡श꣢नी । नि꣣ । वे꣡श꣢꣯नी । वि꣡श्व꣢꣯स्य । ज꣡ग꣢꣯तः । रा꣡त्री꣢꣯ ॥६०८॥

Mantra without Swara
आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति । अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ॥६०८

आ । प्र । आ । अगात् । भद्रा । युवतिः । अह्नः । अ । ह्नः । केतून् । सम् । ईर्त्सति । अभूत् । भद्रा । निवेशनी । नि । वेशनी । विश्वस्य । जगतः । रात्री ॥६०८॥

Samveda - Mantra Number : 608
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—रात्रिपक्षे। (भद्रा) सुखकरी (युवतिः) रात्रिरूपा युवतिः (आ प्रागात्) प्रकृष्टतया आगतास्ति, (अह्नः) दिवसस्य (केतून्) किरणान् (समीर्त्सति) संवेष्टयति। ऋधु वृद्धौ, संपूर्वोऽत्र वेष्टनार्थः। स्वार्थे सनि ‘आप्ज्ञप्यृधामीत्। अ० ७।४।५५’ इति धातोरच ईकारादेशः। एषा (रात्री) रात्रि-युवतिः। ‘रात्रेश्चाजसौ। अ० ४।१।३१’ इति रात्रिशब्दात् ङीपि दीर्घान्तं रूपम्। (विश्वस्य) सम्पूर्णस्य (जगतः) संसारस्य (निवेशनी) विश्रामदायिनी (भद्रा) कल्याणकरी च (अभूत्) जाताऽस्ति ॥ अथ द्वितीयः—योगनिद्रापक्षे। (भद्रा) सुखकरी (युवतिः) सोमनिद्रारूपा युवतिः (आ प्रागात्) सद्य एव योगमार्गे प्राप्ताऽस्ति। (अह्नः) दिवसोपलक्षितस्य सांसारिकविषयभोगस्य (केतुन्) प्रभावान् (समीर्त्सति) संकोचयति। एषा (रात्री) समाधिदशारूपा योगनिद्रा (विश्वस्य) सम्पूर्णस्य (जगतः) क्रियामयस्य मनोव्यापारस्य (निवेशनी) प्रस्वापयित्री, अत एव (भद्रा) आनन्दजनिका (अभूत्) सम्पन्नाऽस्ति ॥७॥ अत्र रात्रौ युवतित्वारूपाद् रूपकालङ्कारः। यथा काचिद् युवतिरितस्ततो गृहे विकीर्णं वस्तुजातं सञ्चिनोति, पत्ये च सुखकरी विश्रामदायिनी च भवति, तथैवेयं रात्रिर्दिवसे विकीर्णान् किरणान् संकोचयति सर्वेभ्यो विश्रामदायिनी च जायते इति तात्पर्यम् ॥७॥
Essence
रात्रिरिव योगसमाधिनिद्रा योगिभ्यो भद्राऽह्लादकरी विश्रामदायिनी च भवति ॥७॥
Subject
अथ रात्रिर्देवता। रात्रिरूपां युवतिं वर्णयति।