Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 607

1875 Mantra
Devata- अपांनपात् Rishi- गृत्समदः शौनकः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣢म꣣न्या꣡ यन्त्युप꣢꣯यन्त्य꣣न्याः꣡ स꣢मा꣣न꣢मू꣣र्वं꣢ न꣣꣬द्य꣢꣯स्पृणन्ति । त꣢मू꣣ शु꣢चि꣣ꣳ शु꣡च꣢यो दीदि꣣वा꣡ꣳस꣢म꣣पा꣡न्नपा꣢꣯त꣣मु꣡प꣢ य꣣न्त्या꣡पः꣢ ॥६०७॥

स꣢म् । अ꣣न्याः꣢ । अ꣣न् । याः꣢ । य꣡न्ति꣢꣯ । उ꣡प꣢꣯ । य꣣न्ति । अन्याः꣢ । अ꣣न् । याः꣢ । स꣣मान꣢म् । स꣣म् । आन꣢म् । ऊ꣣र्व꣢म् । न꣣द्यः꣢꣯ । पृ꣣णन्ति । त꣢म् । उ꣣ । शु꣡चि꣢꣯म् । शु꣡चयः꣢꣯ । दी꣣दिवाँ꣡स꣢म् । अ꣣पा꣢म् । न꣡पा꣢꣯तम् । उ꣡प꣢꣯ । य꣣न्ति । आ꣡पः꣢꣯ ॥६०७॥

Mantra without Swara
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥

सम् । अन्याः । अन् । याः । यन्ति । उप । यन्ति । अन्याः । अन् । याः । समानम् । सम् । आनम् । ऊर्वम् । नद्यः । पृणन्ति । तम् । उ । शुचिम् । शुचयः । दीदिवाँसम् । अपाम् । नपातम् । उप । यन्ति । आपः ॥६०७॥

Samveda - Mantra Number : 607
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अन्याः) काश्चन नद्यः (सं यन्ति) परस्परं संसृज्य समुद्रं गच्छन्ति, (अन्याः) इतराश्च (उप यन्ति) स्वतन्त्रतया पृथक् पृथक् समुद्रम् उपगच्छन्ति, (नद्यः) ताः सर्वा अपि सरितः (समानम्) एकमेव (ऊर्वम्) समुद्राग्निम् (पृणन्ति) प्रीणयन्ति। पृण प्रीणने, तुदादिः। तथैव (तम्) उ तमेव (शुचिम्) पवित्रम्, (दीदिवांसम्) देदीप्यमानम्। दिवुः दीप्यर्थः, लिटः क्वसुः। (अपाम्) आप्तानां प्रजानाम्२ (नपातम्) न पातयितारम् अग्निं परमात्मानम् (आपः) आप्ताः प्रजाः (उप यन्ति) उपगच्छन्ति ॥६॥ अत्र व्यङ्ग्यसाम्ययोर्द्वयोर्वाक्ययोरेकोऽपि सामान्यो धर्मः ‘पृणन्ति, उपयन्ति’ इति पृथक्शब्दाभ्यां निर्दिष्ट इति प्रतिवस्तूपमालङ्कारः३। ‘सम, समा’, ‘न्या, न्या’, ‘यन्त्यु, यन्त्य’, ‘शुचि, शुच’, ‘पयन्त्य, पयन्त्या’ इति च सर्वत्र छेकानुप्रासः ॥६॥
Essence
यथा व्याप्ता नद्य एकमेव समुद्राग्निं प्रीणयन्ति तथैवाप्ताः प्रजा एकमेव परमात्माग्निं प्राप्नुवन्ति ॥६॥४
Subject
अथ नदीदृष्टान्तेन परमात्मनो महिमानमाह।
Footnote
१. ऋ० २।३५।३, ‘नद्यः पृणन्ति’, ‘परितस्थुरापः’ इति पाठः। २. ‘(आपः) आप्ताः प्रजाः’ इति य–० ६।२७ भाष्ये द०। ३. प्रतिवस्तूपमा सा स्याद् वाक्ययोर्गम्यसाम्ययोः। एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ सा० द० १०।४९-५० इति तल्लक्षणात्। ४. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—‘यथा नद्यः स्वयं समुद्रं प्राप्य स्थिरोदका जायन्ते, यथा आपो मेघमण्डलं प्राप्य दिव्या भवन्ति, तथा स्त्री अभीष्टं पतिं पतिरभीष्टां स्त्रियं च प्राप्य स्थिरमनस्कौ शुद्धभावौ भवतः’ इति।