Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 606

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
ते꣡ म꣢न्वत प्र꣣थमं꣢꣫ नाम꣣ गो꣢नां꣣ त्रिः꣢ स꣣प्त꣡ प꣢र꣣मं꣡ नाम꣢꣯ जानन् । ता꣡ जा꣢न꣣ती꣢र꣣꣬भ्य꣢꣯नूषत꣣ क्षा꣢ आ꣣वि꣡र्भु꣣वन्नरु꣣णी꣡र्यश꣢꣯सा꣣ गा꣡वः꣣ ॥६०६॥

ते꣢ । अ꣣मन्वत । प्रथम꣢म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् । त्रिः । स꣣प्त꣢ । प꣣रम꣢म् । ना꣡म꣢꣯ । जा꣣नन् । ताः꣢ । जा꣣नतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । क्षाः꣢ । आ꣣विः꣢ । आ꣣ । विः꣢ । भु꣣वन् । अरुणीः꣢ । य꣡श꣢꣯सा । गा꣡वः꣢꣯ ॥६०६॥

Mantra without Swara
ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जानन् । ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ॥

ते । अमन्वत । प्रथमम् । नाम । गोनाम् । त्रिः । सप्त । परमम् । नाम । जानन् । ताः । जानतीः । अभि । अनूषत । क्षाः । आविः । आ । विः । भुवन् । अरुणीः । यशसा । गावः ॥६०६॥

Samveda - Mantra Number : 606
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्रणीः परमात्मन् ! (ते)२ प्रसिद्धा विद्वांसः (नाम) त्वदीयं नामधेयम् (प्रथमम्) श्रेष्ठम् (अमन्वत्) मन्यन्ते। (गोनां त्रिःसप्त) वेदवाचाम् एकविंशतिः अपि, सप्त गायत्र्यादीनि, सप्त अतिजगत्यादीनि, सप्त च कृत्यादीनि इति वेदानाम् एकविंशतिः छन्दांसि अपि इत्यर्थः। गवाम् इति प्राप्ते पादान्तत्वाद् ‘गोः पादान्ते। अ० ७।१।५७’ इति नुडागमः। (नाम) त्वदीयं नामधेयम् (परमम्) श्रेष्ठम् (जानन्) ज्ञापयन्ति। (जानतीः) तव नाम श्रेष्ठं ज्ञापयन्त्यः (ताः) प्रसिद्धाः (क्षाः) अर्थगर्भा वेदवाचः। क्षा क्षियतेर्निवासकर्मणः। निरु० २।६। क्षाययन्ति निवासयन्ति गूढमर्थं स्वात्मनि यास्ताः क्षाः। क्षि निवासगत्योः। (अभ्यनूषत) त्वां स्तुवन्ति। अत एव (गावः) ताः वेदवाचः (यशसा) त्वन्महिमगानजनितया कीर्त्या (अरुणीः) अरुण्यः आरोचमानाः सत्यः (आविर्भुवन्) अध्येतॄणां हृदि स्वार्थसमुद्घाटनेन प्रकटिता जायन्ते। तथा चोक्तम्—उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम्। उ॒तो त्व॑स्मै त॒न्वं विसस्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥ ऋ० १०।७१।४ इति ॥५॥ अत्र ‘जानन्, जानतीः’ इत्युभयत्र ण्यर्थगर्भो ज्ञाधातुर्विज्ञेयः, वेदवाचामचेतनत्वेन ज्ञानासंभवात् ॥५॥
Essence
वेदवाचः संभूय यस्य परब्रह्मणो महिमानं गायं गायं न श्राम्यन्ति, यस्य च यशोमयस्य माहात्म्यकीर्तनेन ताः स्वयमपि यशोमय्यः सञ्जाताः, तन्महिमाऽस्माभिरपि कुतो न गेयः ॥५॥
Subject
अथ वेदवाचः परमात्मन एव यशो गायन्तीत्याह।
Footnote
१. ऋ० ४।१।१६, ‘ते मन्वत प्रथमं नाम धेनोस्त्रिःसप्त मातुः परमाणि विन्दन्। तज्जानतीरभ्यनूषत वा आविर्भुवदरुणीर्यशसा गोः’ ॥ इति पाठः। २. ‘ते’ इति पदं प्रसिद्धपरामर्शकम्। न च युष्मदादेशोऽयमिति मन्तव्यं पादादौ तस्याप्राप्तेः स्वरविरोधाच्च।