Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 605

1875 Mantra
Devata- अग्निः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣣ग्नि꣡मी꣢डे पु꣣रो꣡हि꣢तं य꣣ज्ञ꣡स्य꣢ दे꣣व꣢मृ꣣त्वि꣡ज꣢म् । हो꣡ता꣢रꣳ र꣣त्नधा꣡त꣢मम् ॥६०५॥

अ꣣ग्नि꣢म् । ई꣣डे । पुरो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । यज्ञ꣡स्य꣢ । दे꣣व꣢म् । ऋ꣣त्वि꣡ज꣢म् । हो꣡ता꣢꣯रम् । रत्नधा꣡त꣢मम् । र꣣त्न । धा꣡त꣢꣯मम् ॥६०५॥

Mantra without Swara
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारꣳ रत्नधातमम् ॥

अग्निम् । ईडे । पुरोहितम् । पुरः । हितम् । यज्ञस्य । देवम् । ऋत्विजम् । होतारम् । रत्नधातमम् । रत्न । धातमम् ॥६०५॥

Samveda - Mantra Number : 605
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (पुरोहितम्) ध्यानावस्थायां समक्षं निहितम्, (यज्ञस्य) देवपूजासंगतिकरणदानात्मकस्य यागस्य (देवम्) प्रकाशकम्, (ऋत्विजम्) सर्वान् ऋतून् ग्रीष्मवर्षादीन् यजते संगमयतीति तम्, ऋतौ ऋतौ इज्यते पूज्यते यः तं वा। अत्र ऋतु शब्द उपपदे यजेः ‘ऋत्विग्दधृक्०’ अ० ३।२।५९ इति क्विन् प्रत्ययो निपात्यते। (होतारम्) दातारम्। जुहोति ददाति सुखादिकं यः स होता (तम्)। हु दानादनयोः। (रत्नधातमम्) सद्गुणरूपाणां सुवर्णरजतहीरकादिरूपाणां वा रत्नानां दातृतमम् (अग्निम्) अग्निवत् प्रकाशमानं प्रकाशकं२ मालिन्यदाहकम् अग्रनायकं परमात्मानम् (ईडे) पूजयामि ॥४॥ यास्काचार्य इमामृचमेवं व्याचष्टे—‘अग्निम् ईडे अग्निं याचामि। ईडिरध्येषणाकर्मा पूजाकर्मा वा। पुरोहितो व्याख्यातो यज्ञश्च। [पुरोहितः पुन एनं दधति। निरु० २।१२। यज्ञः कस्मात् ? प्रख्यातं यजतिकर्मेति नैरुक्ताः। याच्यो भवतीति वा। यजुरुन्नो भवतीति वा। बहुकृष्णाजिन इत्यौपमन्यवः। यजूंष्येनं नयन्तीति वा। निरु० ३।१९।] देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा। यो देवः सा देवता। होतारं ह्वातारम्, जुहोतेर्होतेत्यौर्णवाभः। रत्नधातमं रमणीयानां धनानां दातृतमम्। निरु० ७।१५। ऋत्विक् शब्दं च स एवं निर्वक्ति—“ऋत्विक् कस्मात् ? ईरणः, ऋग्यष्टा भवतीति शाकपूणिः। ऋतुयाजी भवतीति वा।” निरु० ३।१९ ॥
Essence
परमेश्वरपूजनाय न कोऽप्येक एव ऋतुः, प्रत्युत स सदा सर्वत्र सर्वैराराधनीयस्तत्सकाशात् प्रेरणां बलं च प्राप्य यज्ञादिषु प्रवृत्तिर्विधेया ॥४॥
Subject
अथ तिसृणामग्निर्देवता। परमात्मस्तवनविषयमाह।
Footnote
१. ऋ० १।१।१। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे शिल्पाग्निपक्षे च व्याख्यातवान्।