Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 604

1875 Mantra
Devata- सोमः Rishi- गोतमो राहूगणः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त्व꣢मि꣣मा꣡ ओष꣢꣯धीः सोम꣣ वि꣢श्वा꣣स्त्व꣢म꣣पो꣡ अ꣢जनय꣣स्त्वं꣢ गाः । त्व꣡मात꣢꣯नोरु꣣र्वा꣢३न्त꣡रि꣢क्षं꣣ त्वं꣡ ज्योति꣢꣯षा꣣ वि꣡ तमो꣢꣯ ववर्थ ॥६०४॥

त्व꣢म् । इ꣣माः꣢ । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । सोम । वि꣡श्वाः꣢꣯ । त्वम् । अ꣣पः꣢ । अ꣣जनयः । त्व꣢म् । गाः । त्वम् । आ । अ꣣तनोः । उरु꣢ । अ꣣न्त꣡रि꣢क्षम् । त्वम् । ज्यो꣡ति꣢꣯षा । वि । त꣡मः꣢꣯ । व꣣वर्थ ॥६०४॥

Mantra without Swara
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥

त्वम् । इमाः । ओषधीः । ओष । धीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः । त्वम् । आ । अतनोः । उरु । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ ॥६०४॥

Samveda - Mantra Number : 604
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सर्वोत्पादक परमात्मन् ! यः सवति चराचरं जगत् स सोमः। षु प्रसवैश्वर्ययोः। ‘अर्तिस्तुसु०’ उ० १।१४ इति मन्। (त्वम्) सर्वशक्तिमान् (इमाः) एताः दृश्यमानाः (विश्वाः) समस्ताः (ओषधीः) रोगनिवारिकाः सोमलताद्याः, (त्वम्) सर्वोपकारी (अपः) जलानि, (त्वम्) सर्वप्राणिपालकः (गाः) धेनूः (अजनयः) उत्पादितवानसि। (त्वम्) सर्वविस्तारकः (उरु) विशालम् (अन्तरिक्षम्) मध्यलोकम् (आ अतनोः) विस्तारितवानसि। (त्वम्) सर्वप्रकाशकः (ज्योतिषा) सूर्यप्रकाशेन (तमः) रात्र्याः अन्धकारम् (वि ववर्थ) निवारयसि। वृञ् वरणे धातोः सामान्यार्थे लिटि ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’ अ० ७।२।६४ इति निपातनाद् इट्प्रतिषेधे रूपम्। “ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम्। निगम एव, न भाषाया”मिति काशिकावृत्तिः ॥३॥२
Essence
परमात्मनैवेदं चराचररूपं सर्वं जगदुत्पादितं पालितं पोषितं व्यवस्थापितं च सर्वान् सुखयति ॥३॥
Subject
अथ सोमाख्यस्य परमेश्वरस्य महिमानमाह।
Footnote
१. ऋ० १।९१।२२, य० ३४।२२ ‘त्वमाततन्थोर्वन्तरिक्षं’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमेश्वरपक्षे यजुर्भाष्ये च राजपक्षे व्याख्यातवान्।