Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 603

1875 Mantra
Devata- सोमः Rishi- गोतमो राहूगणः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
सं꣢ ते꣣ प꣡या꣢ꣳसि꣣ स꣡मु꣢ यन्तु꣣ वा꣢जाः꣣ सं꣢꣯ वृष्ण्या꣢꣯न्यभिमाति꣣षा꣡हः꣢ । आ꣣प्या꣡य꣢मानो अ꣣मृ꣡ता꣢य सोम दि꣣वि꣡ श्रवा꣢꣯ꣳस्युत्त꣣मा꣡नि꣢ धिष्व ॥६०३॥

स꣢म् । ते꣣ । प꣡याँ꣢꣯सि । सम् । उ꣣ । यन्तु । वा꣡जाः꣢꣯ । सम् । वृ꣡ष्ण्या꣢꣯नि । अ꣣भिमातिषा꣡हः꣢ । अ꣣भिमाति । सा꣡हः꣢꣯ । आ꣣प्या꣡य꣢मानः । आ꣣ । प्या꣡यमा꣢꣯नः । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । सो꣣म । दिवि꣢ । श्र꣡वाँ꣢꣯सि । उ꣣त्तमा꣡नि꣢ । धि꣣ष्व ॥६०३॥

Mantra without Swara
सं ते पयाꣳसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳस्युत्तमानि धिष्व ॥

सम् । ते । पयाँसि । सम् । उ । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिषाहः । अभिमाति । साहः । आप्यायमानः । आ । प्यायमानः । अमृताय । अ । मृताय । सोम । दिवि । श्रवाँसि । उत्तमानि । धिष्व ॥६०३॥

Samveda - Mantra Number : 603
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) पवित्रतासंपादक करुणारसागार परमात्मन् ! (अभिमातिषाहः) कामादिशत्रुपराजयकारिणः ते तव (पयांसि) प्रेमरसाः आनन्दरसाश्च (सं यन्तु) अस्मान् प्राप्नुवन्तु, (उ ) अपि च (वाजाः) बलानि (सम्) अस्मान् प्राप्नुवन्तु। (वृष्ण्यानि) पुरुषार्थयुक्तकर्माणि (सम्) अस्मान् प्राप्नुवन्तु। (आप्यायमानः) हृदि वर्द्धमानः त्वम्। ओप्यायी वृद्धौ। (अमृताय) अमरत्वप्रदानाय (दिवि) अस्माकम् आत्मनि (उत्तमानि) उत्कृष्टतमानि (श्रवांसि) यशांसि (धिष्व) निधेहि। अत्र ‘सुधितवसुधितनेमधितधिष्वधिषीय च। अ० ७।४।४५’ इति लोण्मध्यमैकवचने दधातेरित्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते ॥२॥२ अत्र यथा सोमश्चन्द्रो वर्धमानः सन् गगने उत्तमां चन्द्रिकां प्रसारयतीति ध्वन्यते। तेन परमात्मा चन्द्र इवेत्युपमाध्वनिः ॥२॥
Essence
यथा यथा परमात्मध्यानमस्माकं वर्द्धते तथा तथास्मदन्तःकरणे परमात्मा वर्धमान इवास्मभ्यमानन्दमात्मबलं कर्मनिष्ठत्वमुत्तमानि यशांसि च प्रयच्छति ॥२॥
Subject
अथ द्वयोः पवमानः सोमो देवता। परमात्मानं प्रार्थयते।
Footnote
१. ऋ० १।९१।१८, य० १२।११३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये श्लेषालङ्कारेण विद्वत्पक्षे सोमौषधिपक्षे च, यजुर्भाष्ये च मनुष्यपक्षे व्याख्यातवान्।