Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 602

1875 Mantra
Devata- प्रजापतिः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
म꣢यि꣣ व꣢र्चो꣣ अ꣢थो꣣ य꣡शोऽथो꣢꣯ य꣣ज्ञ꣢स्य꣣ य꣡त्प꣢꣯यः । पर꣣मेष्ठी꣢ प्र꣣जा꣡प꣢तिर्दि꣣वि꣡ द्यामि꣢꣯व दृꣳहतु ॥६०२॥

म꣡यि꣢꣯ । व꣡र्चः꣢꣯ । अ꣡थ꣢꣯ । उ꣣ । य꣡शः꣢꣯ । अ꣡थ꣢꣯ । उ꣣ । यज्ञ꣡स्य꣢ । यत् । प꣡यः꣢꣯ । प꣣रमेष्ठी꣢ । प꣣रमे । स्थी꣢ । प्र꣣जा꣡प꣢तिः । प्र꣣जा꣢ । प꣣तिः । दिवि꣢ । द्याम् । इ꣣व । दृँहतु ॥६०२॥

Mantra without Swara
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । परमेष्ठी प्रजापतिर्दिवि द्यामिव दृꣳहतु ॥

मयि । वर्चः । अथ । उ । यशः । अथ । उ । यज्ञस्य । यत् । पयः । परमेष्ठी । परमे । स्थी । प्रजापतिः । प्रजा । पतिः । दिवि । द्याम् । इव । दृँहतु ॥६०२॥

Samveda - Mantra Number : 602
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(परमेष्ठी) सर्वोच्चपदप्रतिष्ठितः। परमे स्थाने सर्वोच्चे पदे तिष्ठतीति परमेष्ठी। परमोपपदात् स्था धातोः ‘परमे कित्’ उ० ४।१० इति इनिः प्रत्ययः, किद्वच्च, कित्त्वाद्धातोराकारलोपः, सप्तम्या अलुक्। (प्रजापतिः) ब्रह्माण्डस्थानां सकलानां प्रजानाम् अधिपतिः परमेश्वरः, शरीरस्थानां मनोबुद्धिप्राणेन्द्रियादीनां प्रजानां पतिः जीवात्मा, राष्ट्रस्थानां प्रजानां पतिः राजा च (मयि) प्रार्थयितरि (वर्चः) ब्रह्मवर्चसम्, (अथ उ) अपि च (यशः) कीर्तिम्, (अथ उ) अन्यच्च (यज्ञस्य) उपासनायज्ञस्य, राष्ट्रयज्ञस्य वा (यत् पयः) यत् आनन्दरूपं समृद्धिरूपं वा फलं भवति तत् (दृंहतु) स्थिरयतु, (द्याम् इव) यथा प्रजापतिः परमेश्वरः आकाशे सूर्यं, प्रजापतिः आत्मा मस्तिष्के दीप्तं विज्ञानम्, प्रजापतिः राजा च राष्ट्रे विद्याप्रकाशं द्रढयति तद्वत् ॥१॥ अत्र श्लेषोपमालङ्कारौ ॥१॥
Essence
परमात्मकृपया, आत्मनः पुरुषार्थेन, राज्ञश्च राजधर्मपालनेन मनुष्यैर्ब्रह्मवर्चसं यशो यज्ञानुष्ठानफलं च सद्य एव प्राप्तुं शक्यते ॥१॥
Subject
अथ प्रथमायाः प्रजापतिर्देवता। तं प्रजापतिं परमात्मानं जीवात्मानं राजानं वा प्रार्थयते।
Footnote
१. अथ० ६।६९।३, ऋषिः अथर्वा। देवता बृहस्पतिः। ‘परमेष्ठी प्रजापतिः’ इत्यत्र ‘तन्मयि प्रजापतिः’ इति पाठः।