Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 600

1875 Mantra
Devata- वायुः Rishi- गृत्समदः शौनकः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
नि꣣यु꣡त्वा꣢꣯न्वाय꣣वा꣡ ग꣢ह्य꣣य꣢ꣳ शु꣣क्रो꣡ अ꣢यामि ते । ग꣡न्ता꣢सि सुन्व꣣तो꣢ गृ꣣ह꣢म् ॥६००॥

नि꣣यु꣡त्वा꣢न् । नि꣣ । यु꣡त्वा꣢꣯न् । वा꣣यो । आ꣢ । ग꣣हि । अय꣢म् । शु꣣क्रः꣢ । अ꣣यामि । ते । ग꣡न्ता꣢꣯ । अ꣣सि । सुन्वतः꣢ । गृ꣣ह꣢म् ॥६००॥

Mantra without Swara
नियुत्वान्वायवा गह्ययꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥

नियुत्वान् । नि । युत्वान् । वायो । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम् ॥६००॥

Samveda - Mantra Number : 600
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वायो२) वायुवदनन्तबल सर्वशोधक सर्वेषां जीवनाधार प्राणप्रिय परमात्मन् ! तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। य० ३२।१ इति प्रामाण्याद् वायुशब्दः परमेश्वरवाचकः। (नियुत्वान्) नियमन-नियोजन-सामर्थ्यवान् त्वम्। नियुतो नियमनाद् वा नियोजनाद् वेति यास्कः। निरु० ५।२७। (आ गहि) मम नियमनाय सत्कर्मसु नियोजनाय वा आगच्छ। (अयम्) एषः (शुक्रः) पवित्रः प्रदीप्तश्च ज्ञानकर्म-भक्ति-रसः। शुचिर् पूतीभावे, शुच दीप्तौ। (ते) तुभ्यम् (अयामि) मया अर्पितोऽस्ति। यच्छतेः कर्मणि लुङि रूपम्। अनुपसृष्टोऽप्ययं क्वचिद् दानार्थे दृश्यते। त्वम् (सुन्वतः) ज्ञान-कर्म-भक्तिमयं यज्ञं कुर्वतो यजमानस्य (गृहम्) हृदयसदनम् (गन्ता३) गमनकर्ता (असि) भवसि ॥६॥४
Essence
ज्ञानयज्ञः कर्मयज्ञो भक्तियज्ञश्च संमिलिता एव परमात्मनः कृपां लम्भयन्ते ॥६॥
Subject
अथ वायुर्देवता। वायुनाम्ना परमेश्वरमाह्वयति।
Footnote
१. ऋ० २।४१।२, य० २७।२९। २. ‘अनन्तबलवत्त्वसर्वधातृत्वाभ्यां परमेश्वरो वायुशब्दवाच्यः’ इति य० ३२।१ भाष्ये ‘वायुरिव सर्वशोधक सर्वत्र गन्त सर्वप्रियेश्वर’ इति च य० २७।२९ भाष्ये—द०। ३. गन्ता गमनशीलः। तृन्नन्तोऽयं गन्ता, उदात्तः। तद्धर्मा वा तत्साधुकारी वा एते हि तृनोऽर्थाः इति य० २७।२९ भाष्ये उवटः। महीधरोऽपि ‘तृन्नन्त आद्युदात्तत्वात्’ इत्याह। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्वेदे विद्वत्पक्षे युजुर्वेदे च परमेश्वरपक्षे व्याख्यातः।