Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 60

1875 Mantra
Devata- अग्निः Rishi- उत्कीलः कात्यः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣य꣢म꣣ग्निः꣢ सु꣣वी꣢र्य꣣स्ये꣢शे꣣ हि꣡ सौभ꣢꣯गस्य । रा꣡य꣣ ई꣢शे स्वप꣣त्य꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शे꣢ वृत्र꣣ह꣡था꣢नाम् ॥६०॥

अ꣣य꣢म् । अ꣣ग्निः꣢ । सु꣣वी꣡र्य꣣स्य । सु꣣ । वी꣡र्य꣢꣯स्य । ई꣡शे꣢꣯ । हि । सौ꣡भ꣢꣯गस्य । सौ । भ꣣गस्य । रायः꣢ । ई꣣शे । स्वपत्य꣡स्य꣣ । सु꣣ । अपत्य꣡स्य꣢ । गो꣡म꣢꣯तः । ई꣡शे꣢꣯ । वृ꣣त्रह꣡था꣢नाम् । वृ꣣त्र । ह꣡था꣢꣯नाम् ॥६०॥

Mantra without Swara
अयमग्निः सुवीर्यस्येशे हि सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥

अयम् । अग्निः । सुवीर्यस्य । सु । वीर्यस्य । ईशे । हि । सौभगस्य । सौ । भगस्य । रायः । ईशे । स्वपत्यस्य । सु । अपत्यस्य । गोमतः । ईशे । वृत्रहथानाम् । वृत्र । हथानाम् ॥६०॥

Samveda - Mantra Number : 60
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एष पुरो विद्यमानः (अग्निः) जगदग्रणीः परमेश्वरः प्रजाभि- र्निर्वाचितोराष्ट्रनायको राजा वा (सुवीर्यस्य) दैहिकाध्यात्मिकबलस्य, (सौभगस्य) धर्मयशःश्रीज्ञानवैराग्यादिसौभाग्यस्य च (हि) निश्चयेन (ईशे) ईष्टे, (स्वपत्यस्य) शोभनसन्तानयुक्तस्य, (गोमतः) गोपदवाच्यधेनुपृथिवीसूर्यरश्मिवेदवागादियुक्तस्य च (रायः) ऐश्वर्यस्य (ईशे) ईष्टे। (वृत्रहथानाम्) पापसंहाराणां शत्रुसंहाराणां चापि (ईशे) ईष्टे। ईशे इत्यत्र लोपस्त आत्मनेपदेषु।’ अ० ७।१।४१ इति तकारलोपः। हथ इत्यत्र हन् हिंसागत्योः इत्यस्मात् हनिकुषिनीरमिकाशिभ्यः क्थन्।’ उ० २।२ इति क्थन्। अधीगर्थदयेषां कर्मणि।’ अ० २।३।५२ इत्यनेन ईशधातोः कर्मसु षष्ठी ॥६॥२ अत्र अर्थश्लेषालङ्कारः। ईशे इत्यस्यावृत्तौ लाटानुप्रासः ॥६॥
Essence
यथा राजा स्वराष्ट्रभूमेस्तद्वर्तिनां धनधान्यवीरपुरुषादीनां गवादिपशूनां चाधीश्वरो भवति, तथैव परमेश्वरः समस्तानां भौतिकाध्यात्मिकानां धनानामधीश्वरोऽस्ति। स एव शरीरबलम्, आत्मबलं, धृतिं, धर्मं, कीर्तिं, श्रियं, ज्ञानं, वैराग्यं, श्रेष्ठसन्तानं, धेनुं, पृथिवीं, सूर्यं, वेदवाचं चास्मभ्यं प्रयच्छति। स एव जीवविनाशकेभ्यः पापेभ्योऽस्मान् रक्षति। अतस्तत्कृते भूरिक्षो धन्यवादा अस्माभिः प्रदेयाः ॥६॥
Subject
अथ परमात्मा राजा च कस्य वस्तुनोऽधीश्वरोऽस्तीत्याह।
Footnote
१. ऋ० ३।१६।१ हि इत्यत्र महः इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।