Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 6

1875 Mantra
Devata- अग्निः Rishi- सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्वं꣡ नो꣢ अग्ने꣣ म꣡हो꣢भिः पा꣣हि꣡ विश्व꣢꣯स्या꣣ अ꣡रा꣢तेः । उ꣣त꣢ द्वि꣣षो꣡ मर्त्य꣢꣯स्य ॥६॥

त्व꣢म् । नः꣢ । अग्ने । म꣡हो꣢꣯भिः । पा꣣हि꣢ । वि꣡श्व꣢꣯स्य । अ꣡रा꣢꣯तेः । अ । रा꣣तेः । उत꣢ । द्वि꣣षः꣢ । म꣡र्त्य꣢꣯स्य ॥६॥

Mantra without Swara
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥

त्वम् । नः । अग्ने । महोभिः । पाहि । विश्वस्य । अरातेः । अ । रातेः । उत । द्विषः । मर्त्यस्य ॥६॥

Samveda - Mantra Number : 6
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) सर्वनायक तेजःस्वरूप परमात्मन् ! (त्वम्) जगदीश्वरः (महोभिः) त्वदीयतेजोभिः (विश्वस्याः) सर्वस्याः (अ-रातेः२) न रातिः अरातिः अदानभावना शत्रुता वा तस्याः। रा दाने, भावे क्तिन्। नञ्तत्पुरुषेऽव्ययस्वरेणाद्युदात्तत्वम्। शत्रुवाचकोऽरातिशब्दः पुंसि, अदानभावनावाचकः शत्रुतावाचको वा स्त्रियामिति बोध्यम्। (उत) अपि च (मर्त्यस्य) मनुष्यस्य (द्विषः) द्वेषात्। द्विष अप्रीतौ इति धातोर्भावे क्विप्। (नः) अस्मान् (पाहि) रक्ष ॥६॥ मन्त्रोऽयं श्लेषेण राजपक्षे विद्वत्पक्षे चापि योजनीयः ॥६॥
Essence
अदानवृत्तिग्रस्तो हि मानवः स्वोदरंभरिः सन् सर्वदा स्वार्थायैव यतते। तेन न कदापि सामाजिक्याध्यात्मिकी चोन्नतिः संभवति। दानपरोपकारयोर्मैत्र्याश्च भावनयैव पारस्परिकसहयोगेन लक्ष्यपूर्तिर्भवितुमर्हति। अतो हे जगदीश्वर राजन् विद्वन् वा ! त्वं नः स्वतेजोभिः, स्वकीयक्षत्रप्रतापैः, स्वविद्याप्रतापैर्वा सर्वस्या अदानवृत्तेः शत्रुतायाश्च पाहि। किञ्च, यो मर्त्योऽस्मान् द्वेष्टि द्वेषबुद्ध्या चास्मदीयप्रगतौ विघ्नमुत्पादयति, तस्य द्वेषादप्यस्मान् रक्ष, येन सूत्रे मणिगणा इव परस्परं सामनस्ये प्रोता वयमुन्नता भवेम ॥६॥
Subject
परमात्माऽस्मान् कस्माद् रक्षेदित्याह।
Footnote
१. ऋ० ८।७१।१। २. अरातिः शत्रुः। स्त्रीलिङ्गनिर्देशो जात्यपेक्षः। सर्वस्याः शत्रुजातेः सकाशाद् इति वि०। अरातेः सपत्नात्। अरातिशब्दः छन्दसि स्त्रीलिङ्गः। अर्तेररातिः, अभिहन्ता इति भ०। विश्वस्याः बहुविधाद् अरातेः अदातुः सकाशात् अदानाद् वा इति सा०।