Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 599

1875 Mantra
Devata- विश्वे देवाः Rishi- प्रथो वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
प्र꣡थ꣢श्च꣣ य꣡स्य꣢ स꣣प्र꣡थ꣢श्च꣣ ना꣡मानु꣢꣯ष्टुभस्य ह꣣वि꣡षो꣢ ह꣣वि꣢र्यत् । धा꣣तु꣡र्द्युता꣢꣯नात्सवि꣣तु꣢श्च꣣ वि꣡ष्णो꣢ रथन्त꣣र꣡मा ज꣢꣯भारा꣣ व꣡सि꣢ष्ठः ॥५९९॥

प्र꣡थः꣢꣯ । च꣣ । य꣡स्य꣢꣯ । स꣣प्र꣡थः꣢ । स꣣ । प्र꣡थः꣢꣯ । च꣣ । ना꣡म꣢꣯ । आ꣡नु꣢꣯ष्टुभस्य । आ꣡नु꣢꣯ । स्तु꣣भस्य । हवि꣡षः꣢ । ह꣣विः꣢ । यत् । धा꣣तुः꣢ । द्यु꣡ता꣢꣯नात् । स꣣वितुः꣢ । च꣣ । वि꣡ष्णोः꣢꣯ । र꣣थन्तर꣢म् । र꣣थम् । तर꣢म् । आ । ज꣣भार । व꣡सि꣢꣯ष्ठः ॥५९९॥

Mantra without Swara
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥

प्रथः । च । यस्य । सप्रथः । स । प्रथः । च । नाम । आनुष्टुभस्य । आनु । स्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथन्तरम् । रथम् । तरम् । आ । जभार । वसिष्ठः ॥५९९॥

Samveda - Mantra Number : 599
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यस्य) परमेश्वरस्य (प्रथः च सप्रथः च) सर्वत्र प्रख्यातत्वात् ‘प्रथः’ इति, सर्वत्र विस्तीर्णत्वात् ‘सप्रथः’ इति च (नाम) अभिधानं वर्तते। प्रथते प्रख्यातो भवतीति प्रथः। प्रथ प्रख्याने। प्रथेन विस्तरेण सह विद्यते इति सप्रथः सुविस्तीर्णः सर्वव्यापकः। प्रथतिर्विस्तारार्थोऽपि वेदे प्रयुज्यते, यथा पृथिवीत्यत्र। (यत्) यः। अत्र हविःसम्बन्धान्नपुंसकत्वम्। (आनुष्टुभस्य) अनुष्टुप्छन्दस्क- मन्त्रपाठपुरस्सरं कृतस्य (हविषः) उपासकानाम् आत्मसमर्पणरूपस्य हव्यस्य (हविः२) केन्द्रम् भवति, तस्मात् (द्युतानात्) द्योतमानात्। द्युत दीप्तौ धातोः शानचि मुगभावे छान्दसं रूपम्। (धातुः) सर्वजगद्धारकात् (सवितुः च) सर्वजगदुत्पादकाच्च (विष्णोः) सर्वव्यापकात् परमेश्वरात् (वसिष्ठः) अतिशयेन वसुमान् विद्याविनयादिधनयुक्तो विद्वज्जनः (रथन्तरम्) आत्ममनोबुद्धिप्राणेन्द्रियाद्यधिष्ठितदेहरथद्वारेण भवसागर- सन्तारकं ब्रह्मवर्चसम्। ब्रह्मवर्चसं वै रथन्तरम्। तै० ब्रा० २।७।१।१। (आ जभार) आ हरति। आ जहार, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः ॥ रथन्तरमिति साम्नोऽपि नाम, यद्धि वसिष्ठ-ऋषिकायाम् “अभि त्वा शूर नोनुमोऽदुग्धा इत धेनवः। ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः” साम० २३३ इत्यस्यामृच्यध्यूढं गीयते ॥५॥ अत्र ‘प्रथश्च’ ‘हवि’ इत्यनयोरावृत्तौ यमकालङ्कारः, उत्तरार्धे तकारावृत्तौ रेफावृत्तौ च वृत्त्यनुप्रासः ॥५॥
Essence
ध्यातः परमेश्वरः साधकाय योगिने तद् ब्रह्मवर्चसं प्रयच्छति येन स विषयभोगपङ्के निर्लिप्तः सन्नात्ममनोबुद्धिप्राणेन्द्रियशरीरैर्मोक्ष- साधकानि कर्माणि कुर्वाणो भवसागरमुत्तीर्य परं ब्रह्म प्राप्नोति ॥५॥
Subject
अथ विश्वेदेवाः देवताः। परमेश्वरो धातृ-सवितृ-विष्णुनामभिः स्मर्यते।
Footnote
१. ऋ १०।१८१।१। २. हूयतेऽस्मिन्निति हविः। तथा च ‘यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः’ ऋ० १०।९०।६ इति पुरुषसूक्ते, ‘हूयतेऽस्मिन्’ इति व्युत्पत्त्या पुरुषो हविरुक्तः, ‘हूयते यत्’ इति व्युत्पत्त्या च शरद् हविः कथितः।