Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 598

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥

Mantra without Swara
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥

इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥५९८॥

Samveda - Mantra Number : 598
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (उग्र) शत्रुषु प्रचण्ड (इन्द्र) रिपुविदारक जगदीश्वर राजन् वा ! त्वम् (वाजेषु) संकटेषु। वाज इति संग्रामनाम। निघं० २।१७। (सहस्रप्रधनेषु२ च) घोरेषु देवासुरसंग्रामेषु च। सहस्राणि असंख्यातानि प्रधनानि निधनानि येषु तानि सहस्रप्रधनानि घोरयुद्धानि तेषु। (उग्राभिः) उत्कटाभिः (ऊतिभिः) रक्षणशक्तिभिः (नः) धार्मिकान् अस्मान् (अव) रक्ष ॥४॥३ अत्र अर्थश्लेषालङ्कारः। ‘उग्र, उग्रा’ इत्यत्र छेकानुप्रासः ॥४॥
Essence
जीवने पदे पदे समायातेषु संकटेषु, बाह्याभ्यन्तरेषु भीषणसंग्रामेषु, योगमार्गे समुपस्थितेषु व्याधिस्त्यानसंशयादिषु विघ्नेषु राष्ट्रे चोद्बुद्धेषु राज्यविप्लवशत्रुसंनाहादिषु वीरः परमेश्वरो नृपतिश्चास्मान् सततं रक्षेत् ॥४॥
Subject
अथेन्द्रनाम्ना परमेश्वरो नृपतिश्च प्रार्थ्यते।
Footnote
१. ऋ० १।७।४, साम० ७९८, अथ० २०।७०।१०। २. (सहस्रप्रधनेषु) ‘सहस्राणि असंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु’ इति ऋ० १।७।४ भाष्ये द०। सहस्रशब्दः कर्दमादीनां च। फि० सू० ५९ इति मध्योदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् इति तत्रैव सा०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे व्याचष्टे।