Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 597

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
इ꣢न्द्र꣣ इ꣢꣫द्धर्योः꣣ स꣢चा꣣ स꣡म्मि꣢श्ल꣣ आ꣡ व꣢चो꣣यु꣡जा꣢ । इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥५९७॥

इ꣡न्द्रः꣢꣯ । इत् । ह꣡र्योः꣢꣯ । स꣡चा꣢꣯ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । आ꣢ । व꣣चोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥५९७॥

Mantra without Swara
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥

इन्द्रः । इत् । हर्योः । सचा । सम्मिश्लः । सम् । मिश्लः । आ । वचोयुजा । वचः । युजा । इन्द्रः । वज्री । हिरण्ययः ॥५९७॥

Samveda - Mantra Number : 597
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः इत्) जगदीश्वर एव (वचोयुजा) वचोयुजोः, आदेशसमकालमेव युज्यमानयोः। अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः। (हर्योः) द्यावापृथिवीरूपयोः, अहो- रात्ररूपयोः, शुक्लकृष्णपक्षरूपयोः, प्राणापानरूपयोः, ज्ञानेन्द्रियकर्मेन्द्रियरूपयोः, ऋक्सामरूपयोश्च अश्वयोः (सचा) सह (सम्मिश्लः) सम्मिश्रः संयोजयिता विद्यते। अत्र ‘संज्ञाछन्दसोर्वा कपिलकादीनामिति वक्तव्यम्’ अ० ८।२।१८ वा० इत्यनेन रेफस्य लत्वादेशः। (इन्द्रः) स जगदीश्वरः (वज्री) अङ्कुशधर इव निरङ्कुशानां नियामकः, लुप्तोपममेतत् (हिरण्ययः) प्रतापवांश्च (विद्यते) इति शेषः।१ इमे द्यावापृथिवी वै हरी विपक्षसा। तै० ३।९।४।२, अहोरात्रौ वा अस्य हरी। जै० ब्रा० २।७९, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी। ष० ब्रा० १।१ ऋक्सामे वै हरी। श० ४।४।३।६, प्राणापानौ वा अस्य हरी। जै० ब्रा० २।७९। हिरण्ययः इत्यत्र ‘ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि’ अ० ६।४।१७५ इति हिरण्यशब्दाद् विहितस्य मयटो मशब्दलोपो निपात्यते। ज्योतिर्हि हिरण्म्। श० ४।३।१।२१ ॥३॥
Essence
महाप्रतापेन परमेश्वरेणैव सौरमण्डले द्यावापृथिव्यादिरूपौ, शरीरे प्राणापानादिरूपौ, मनोभूमौ च ऋक्सामादिरूपावश्वौ सामञ्जस्यपूर्वकं नियुक्तौ स्तः ॥३॥
Subject
अथ द्वयोरिन्द्रो देवता। अत्र परमात्मनो महिमानमाचष्टे।
Footnote
१. ऋ० १।७।२, साम० ७९७, अथ० २०।३८।५, ४७।५, ७०।८। २. दयानन्दर्षिणा मन्त्रेऽस्मिन् ऋग्भाष्ये प्रथमेन इन्द्रशब्देन वायुः, द्वितीयेन च इन्द्रशब्देन सूर्यो गृहीतः।