Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 596

1875 Mantra
Devata- पवमानः सोमः Rishi- पवित्र आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣡रू꣢रुचदु꣣ष꣢सः꣢ पृ꣡श्नि꣢रग्रि꣣य꣢ उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡द꣢धुः ॥५९६॥

अ꣡रू꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣जयुः꣢ । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥५९६॥

Mantra without Swara
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥

अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । मिमेति । भुवनेषु । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । नृ । चक्षसः । पितरः । गर्भम् । आ । दधुः ॥५९६॥

Samveda - Mantra Number : 596
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) पवमानस्य सर्वत्र गन्तुः सोमस्य प्रेरकस्य परमात्मनः (मायया) बुद्धिकौशलेन कर्मकौशलेन च (अग्रियः) अग्रे भवः। ‘अग्राद्यत् अ० ४।४।११६’ इत्यतः अग्रानुवृत्तौ ‘घच्छौ च’ अ० ४।४।११७ इति भवार्थे घ प्रत्ययः। (पृश्निः) सूर्यः। पृश्निरादित्यो भवति, प्राश्नुत एनं वर्णः इति नैरुक्ताः। संस्प्रष्टा रसान्, संस्प्रष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा। निरु० २।१४। (उषसः) प्रभातवेलाः (अरूरुचत्) आरोचयति, किञ्च (उक्षा) सेचकः पर्जन्यः (भुवनेषु) भूतलेषु (वाजयुः) वाजयुः इव, अन्नोत्पादनकामः इव, इति व्यङ्ग्योत्प्रेक्षा। वाजान् अन्नानि परेषां कामयते इति वाजयुः। ‘क्यचि, क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः। (मिमेति) गर्जति। माङ् माने शब्दे च जुहोत्यादिः, परस्मैपदं छान्दसम्। अपि च (मायाविनः) मेधाविनः इव विद्यमानाः वायवः इति लुप्तोपमम्। (ममिरे) स्वगत्या सुदीर्घान् प्रदेशान् इयत्तया परिच्छिन्दन्ति, तथा च (नृचक्षसः) मनुष्याणां प्रकाशप्रदातारः (पितरः) पालकाः सूर्यकिरणाः (गर्भम् आदधुः) ओषधिषु गर्भं धारयन्ति यद्वा उदकं वाष्पीकृत्य गर्भरूपेण गृह्णन्ति ॥२॥
Essence
परमात्मनैव स्वकौशलैरुषःसूर्यपर्जन्यपवनादित्यकिरणसदृशानि यन्त्राणि रचितानि सन्ति यान्यस्मान् महदुपकुर्वन्ति ॥२॥
Subject
अथ पवमानो देवता। परमात्मन एव कौशलेन सूर्यादयः स्वस्वकार्यं कुर्वन्तीत्याह।
Footnote
१. ऋ० ९।८३।३ ‘मिमेति भुवनेषु’ इत्यत्र ‘बिभर्ति भुवनानि’ इतिपाठः। साम० ८७७।