Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 594

1875 Mantra
Devata- अन्नम् Rishi- आत्मा Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣡ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢ । यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥५९४

अ꣣ह꣢म् । अ꣣स्मि । प्रथमजाः꣢ । प्र꣣थम । जाः꣢ । ऋ꣣त꣡स्य꣢ । पू꣡र्व꣢꣯म् । दे꣣वे꣡भ्यः꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ना꣡म꣢꣯ । यः । मा꣣ । द꣡दा꣢꣯ति । सः । इत् । ए꣣व꣢ । मा꣣ । अवत् । अह꣢म् । अ꣡न्न꣢꣯म् । अ꣡न्न꣢꣯म् । अ꣣द꣡न्त꣢म् । अ꣣द्मि ॥५९४॥

Mantra without Swara
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४

अहम् । अस्मि । प्रथमजाः । प्रथम । जाः । ऋतस्य । पूर्वम् । देवेभ्यः । अमृतस्य । अ । मृतस्य । नाम । यः । मा । ददाति । सः । इत् । एव । मा । अवत् । अहम् । अन्नम् । अन्नम् । अदन्तम् । अद्मि ॥५९४॥

Samveda - Mantra Number : 594
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अहम्) परमेश्वरः (ऋतस्य) जगति सर्वत्र दृश्यमानस्य सत्यनियमस्य (प्रथमजाः) प्रथमो जनयिता। प्रथमोपपदात् जनी प्रादुर्भावे धातोर्ण्यन्तात् ‘जनसनखनक्रमगमो विट्। अ० ३।२।६७’ इति विट् प्रत्ययः। ‘विड्वनोरनुनासिकस्यात्। अ० ६।४।४१’ इत्यात्वम्। (अस्मि) वर्ते। अहम् (देवेभ्यः) सर्वेभ्यः दीप्यमानेभ्यः विद्युदग्नितारामण्डलादिभ्यः, तदुत्पत्तेः इत्यर्थः (पूर्वम्) प्रागपि आसम्। अहम् (अमृतस्य) मोक्षावस्थाजन्यस्य आनन्दामृतस्य (नाम) नाभिः केन्द्रम् स्रोतःस्थानं वा अस्मि। नमन्ति नता भवन्ति एकत्र तिष्ठन्ति अत्र इति नाम नाभिः केन्द्रं स्रोतःस्थलं वा। तथा च ‘अमृतस्य नाभिः’ इति तैत्तिरीयोपनिषदि पाठः। तै० उ० भृगुवल्ली १०।७। (यः) जनः (मा) माम् (ददाति) स्वात्मनि समर्पयति (सः इद् एव) निश्चयेन स एव (मा) माम् (अवत्) प्राप्नोति। अवतिः गतिकर्मा। निघं० २।१४, लेटि रूपम्। (अहम्) परमेश्वरः (अन्नम्) अन्ननामा अस्मि। अद्यते भक्तैर्भुज्यते इत्यन्नम् इति व्युत्पत्तेः। किञ्च, अहम् (अन्नम् अदन्तम्) भोगं भुञ्जानम् प्रत्येकं जनम् (अद्मि) भक्षयामि, तस्माद् ‘अत्ता’ अप्यस्मि। उक्तं चान्यत्र ‘अहमन्नम्, अहमन्नम्, अहमन्नम्, अहमन्नादोऽहमन्नादोऽहमन्नादः। तै० उ० ३।१०।६’, ‘अत्ता चराचरग्रहणात्। ब्र० सू० १।२।९’ इति ॥ निरुक्ते याः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्चेतित्रिविधा ऋचः प्रोक्तास्तासु आध्यात्मिकीयम् ऋक्। ‘आध्यात्मिक्य उत्तमपुरुषयोगा अहमिति चैतेन सर्वनाम्ना’ निरु० ७।२ इति तल्लक्षणात् ॥९॥ अत्र ‘अहमन्नम्’ ‘अन्नमदन्तमद्मि’ इति विरोधप्रतीतेर्विरोधालङ्कारो व्यङ्ग्यः ॥९॥
Essence
यथा प्राणिनो भोजनं विना न जीवन्ति, तथा भक्ताः परमेश्वरं विना। यथा प्राणिनोऽन्नं ग्रसन्ते, तथा परमेश्वरश्चराचरं जगत् ॥९॥ पूर्वदशत्यां सोमनाम्ना परमात्मनो वर्णनादत्र चेन्द्रवरुणसोमादिनामभिस्तस्यैव वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति बोध्यम् ॥ इति षष्ठे प्रपाठके तृतीयार्द्धे प्रथमा दशतिः ॥ इति षष्ठेऽध्याये प्रथमः खण्डः ॥
Subject
अन्नम् देवता। परमेश्वरः स्वपरिचयं ददाति।