Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 593

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥५९३॥

ए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣣र्यः꣢ । आ । द्यु꣣म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥५९३॥

Mantra without Swara
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥

एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषासन्तः । वनामहे ॥५९३॥

Samveda - Mantra Number : 593
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पवित्रतादायक सर्वोत्पादक परमैश्वर्यशालिन् परमात्मन् ! (अर्यः) सर्वेषां स्वामी त्वम्। ‘अर्यः स्वामिवैश्ययोः। अ० ३।१।१०३’ इति स्वाम्यर्थे यत्प्रत्ययान्तो निपातः। ‘यतोऽनावः। अ० ६।१।२१३’ इत्याद्युदात्तत्वे प्राप्ते ‘स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्’ इति वार्तिकेनान्तोदात्तत्वम्। (एना) एनानि (विश्वानि) सर्वाणि (द्युम्नानि) धनानि। द्युम्नमिति धननाम। निघं० २।१०। (आ) आगमय। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। एतानि धनानि वयम् (मानुषाणाम्) सत्पात्रभूतानां मनुष्याणाम् (सिषासन्तः) दातुमिच्छन्तः सन्तः। षणु दाने धातोः सन्नन्तं रूपम्। (वनामहे) संभजामहे, प्राप्तुमिच्छाम इत्यर्थः। वन संभक्तौ भ्वादिः, व्यत्ययेनात्मनेपदम् ॥८॥२
Essence
येन धनेन परेषां हितं न सम्पद्यते तद् धनं धनं न किन्त्वपयश एव पुञ्जीभूतं विद्यते, ‘केवालाघो भवति केवलादी’ ऋ० १०।११७।६ इति श्रुतेः ॥८॥
Subject
अथ परमात्मसोमं धनं याचते।
Footnote
१. ऋ० ९।६१।११, य० २६।१८ ऋषिः महीयवः, साम० ६७४। २. दयानन्दर्षिरपि मन्त्रमिमं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।