Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 592

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣢ न꣣ इ꣡न्द्रा꣢य꣣ य꣡ज्य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣡त्परि꣢꣯स्रव ॥५९२॥

सः꣢ । नः꣣ । इ꣡न्द्रा꣢꣯य । य꣡ज्य꣢꣯वे । व꣡रु꣢꣯णाय । म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । प꣡रि꣢꣯स्र꣣व ॥५९२॥

Mantra without Swara
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परिस्रव ॥

सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुद्भ्यः । वरिवोवित् । वरिवः । वित् । परिस्रव ॥५९२॥

Samveda - Mantra Number : 592
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे पवमान सोम सर्वोत्पादक समग्रैश्वर्याधिपते रसमय पवित्रतादायक परमात्मन् ! (सः) सुप्रसिद्धः त्वम् (नः) अस्माकम् (यज्यवे) देहयज्ञसञ्चालकाय (इन्द्राय) जीवात्मने, (वरुणाय) सत्संकल्पानां वरणकर्त्रे मनसे, (मरुद्भ्यः) प्राणेभ्यश्च (वरिवोवित्) तत्तद्बलरूपस्य ऐश्वर्यस्य लम्भकः सन्। वरिवः इति धननाम। निघं० २।१०। (परिस्रव) हृदये प्रवहस्व, सञ्चरेत्यर्थः ॥ अथ द्वितीयः—राष्ट्रपरः। हे पवमान सोम सर्वेषां राज्याधिकारिणां स्वस्वकर्तव्यकर्मसु प्रेरक तदीयदोषाणां हरणेन पवित्रतादायक राजन् ! (सः) प्रजाभिः राजपदेऽभिषिक्तः त्वम् (नः) अस्माकम् (यज्यवे) राष्ट्रयज्ञस्य यष्ट्रे (इन्द्राय) सेनाध्यक्षाय, (वरुणाय) अनृताचारिणां पाशबन्धकाय कारागाराधिकारिणे। अनृते खलु वै क्रियमाणे वरुणो गृह्णाति। तै० ब्रा० १।७।२।६ इति श्रुतेः। (मरुद्भ्यः) योद्धृभ्यः सैनिकेभ्यश्च (वरिवोवित्) समुचितवेतनरूपस्य धनस्य लम्भकः सन् (परिस्रव) राष्ट्रे सञ्चर ॥७॥२
Essence
परमेश्वरः कृपयाऽस्माकमात्ममनःप्राणेन्द्रियादिभ्यः शरीरराज्य- निर्वहणशक्तिरूपं धनं, राजा च नियुक्तेभ्यो राज्याधिकारिभ्यो देयवेतनरूपं धनं सर्वदा प्रयच्छेत्। यो नृपतिरन्यायेन सेवकान् वेतनाद् वञ्चयते तं ते सर्वात्मनाभिद्रुह्यन्ति ॥७॥
Subject
अथ द्वयोः पवमानः सोमो देवता। अत्र परमात्मानं राजानं चाह।
Footnote
१. ऋ० ९।६१।१२, य० २६।१७ ऋषिः महीयवः, साम० ६७३। २. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये विद्वत्पक्षे व्याख्यातवान्।