Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 590

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त्व꣡या꣢ व꣣यं꣡ पव꣢꣯मानेन सोम꣣ भ꣡रे꣢ कृ꣣तं꣢꣯ वि꣢꣯ चिनुयाम꣣ श꣡श्व꣢त् । त꣡न्नो꣢ मि꣣त्रो꣡ वरु꣢णो मामहन्ता꣣म꣡दि꣢तिः꣣ सि꣡न्धुः꣢ पृ꣣थि꣢वी उ꣣त꣢ द्यौः ॥५९०॥

त्व꣡या꣢꣯ । व꣣य꣢म् । प꣡व꣢꣯मानेन । सो꣣म । भ꣡रे꣢꣯ । कृ꣣त꣢म् । वि । चि꣣नुयाम । श꣡श्व꣢꣯त् । तत् । नः꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । मा꣣महन्ताम् । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । सि꣡न्धुः꣢꣯ । पृ꣣थिवी꣢ । उ꣣त꣢ । द्यौः ॥५९०॥

Mantra without Swara
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् । तत् । नः । मित्रः । मि । त्रः । वरुणः । मामहन्ताम् । अदितिः । अ । दितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५९०॥

Samveda - Mantra Number : 590
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) प्रेरक परमात्मन् ! (पवमानेन) पवित्रतासम्पादकेन (त्वया) सहायकेन (वयम्) शूराः जनाः (भरे) जीवनसंग्रामे। भर इति संग्रामनाम। निघं० २।१७। भर इति संग्रामनाम, भरतेर्वा हरतेर्वा। निरु० ४।२३। (शश्वत्) निरन्तरम् (कृतम्) कर्म (वि चिनुयाम) विशेषेण संगृह्णीयाम। (तत्) तस्मात् (मित्रः) वायुः। अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४। (वरुणः) अग्निः। यो वै वरुणः सोऽग्निः। श० ५।२।४।१३। यो वाऽग्निः स वरुणः तदप्येतद् ऋषिणोक्तम्—त्वमग्ने वरुणो जायसे यदिति। ऐ० ६।२६। (अदितिः) उषाः। निरुक्ते उत्तमस्थानीयासु देवतासु पठितत्वाद् अदितिरित्यनेन उषा गृह्यते। (सिन्धुः) अन्तरिक्षसमुद्रः, पार्थिवसमुद्रो वा, (पृथिवी) भूमिः, (उत) अपि च (द्यौः) द्युलोकः सूर्यो वा (नः) अस्मान् (मामहन्ताम्) सत्कारेण वर्धयन्ताम्। मह पूजायाम्, भ्वादिः लोट्। व्यत्ययेन शपः श्लुः। द्वित्वे तुजादित्वादभ्यासस्य दीर्घः। व्यत्ययेनात्मनेपदम्। यद्वा—(मित्रः) प्राणः, (वरुणः) अपानः। प्राणो वै मित्रोऽपानो वरुणः। श० ८।२।५।६। (अदितिः) वाक्। अदितिरिति वाङ्नामसु पठितम्। निघं० १।११। (सिन्धुः) हृदयसमुद्रः, (पृथिवी) देहयष्टिः। पृथिवी शरीरम् इति श्रुतेः। अथर्व ५।९।७। (उत) अपि च (द्यौः) द्योतमाना बुद्धिः द्युतिमान् आत्मा वा (नः मामहन्ताम्) अस्मान् वर्धयन्ताम्। यद्वा—(मित्रः) ब्राह्मणवर्णः, (वरुणः) क्षत्रियवर्णः। ब्रह्मैव मित्रः क्षत्रं वरुणः। श० ४।१।४।१ इति श्रुतेः। (अदितिः) अपीडनीया नारीजातिः, (सिन्धुः) समुद्रवत् धनसंचयकारी वैश्यवर्णः, (पृथिवी) राष्ट्रभूमिः (उत) अपि च (द्यौः) यशस्विनी राजसभा (नः मामहन्ताम्) अस्मान् प्रजाजनान् अतिशयेन वर्धयन्ताम् ॥५॥
Essence
‘कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः।’ अथ० ७।५०।८ इति नयानुसारं संसारे यः कर्म विचिनुते स एव विजयं समश्नुते। कर्ममार्गेऽस्मिन् परमेश्वरातिरिक्तम् अग्निवायुसूर्यादयो बाह्या देवाः, प्राणापानवाङ्मनःप्रभृतय आभ्यन्तरा देवाः, ब्राह्मणक्षत्रियाद्याः राष्ट्रदेवाश्चास्माकं सहायकाः प्रेरकाश्च भवितुमर्हन्ति ॥५॥
Subject
अथ पवमानः सोमो देवता। तं प्रार्थयते।
Footnote
१. ऋ० ९।९७।५८ ऋषिः कुत्सः।