Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 59

1875 Mantra
Devata- अग्निः Rishi- कण्वो घौरः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ वो꣢ य꣣ह्वं꣡ पु꣢रू꣣णां꣢ वि꣣शां꣡ दे꣢वय꣣ती꣡ना꣢म् । अ꣣ग्नि꣢ꣳ सू꣣क्ते꣢भि꣣र्व꣡चो꣢भिर्वृणीमहे꣣ य꣢꣫ꣳसमिद꣣न्य꣢ इ꣣न्ध꣡ते꣢ ॥५९॥

प्र꣢ । वः꣣ । यह्व꣢म् । पु꣣रूणा꣢म् । वि꣣शा꣢म् । दे꣣वयती꣡ना꣢म् । अ꣣ग्नि꣢म् । सू꣣क्ते꣢भिः꣣ । सु꣣ । उक्थे꣡भिः꣢ । व꣡चो꣢꣯भिः । वृ꣣णीमहे । य꣢म् । सम् । इत् । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । इ꣣न्ध꣡ते꣢ ॥५९॥

Mantra without Swara
प्र वो यह्वं पुरूणां विशां देवयतीनाम् । अग्निꣳ सूक्तेभिर्वचोभिर्वृणीमहे यꣳसमिदन्य इन्धते ॥

प्र । वः । यह्वम् । पुरूणाम् । विशाम् । देवयतीनाम् । अग्निम् । सूक्तेभिः । सु । उक्थेभिः । वचोभिः । वृणीमहे । यम् । सम् । इत् । अन्ये । अन् । ये । इन्धते ॥५९॥

Samveda - Mantra Number : 59
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। (देवयतीनाम्२) आत्मनो देवान् दिव्यान् भोगान्, दिव्यान् गुणान्, दिव्यान् आनन्दाँश्च इच्छन्तीनाम्। क्यचि शत्रन्तं स्त्रियां छान्दसं रूपम्। देवीयन्तीनाम् इति प्राप्ते न छन्दस्य- पुत्रस्य।’ अ० ७।४।३५ इति क्यचि च।’ अ० ७।४।३३ इत्यनेन प्राप्तस्य ईत्वस्य प्रतिषेधः। (पुरूणाम्) बह्वीनाम् (विशां वः३) प्रजानां युष्माकं, हितायेति शेषः, (यह्वम्) गुणैर्महान्तम्। यह्व इति महन्नाम। निघं० ३।३। यह्व इति महतो नामधेयम्, यातश्च हूतश्च भवति। निरु० ८।८। (अग्निम्) परमेश्वरम्, वयम् (सूक्तेभिः) सूक्तैः, सुगीतैः। ‘बहुलं छन्दसि।’ अ० ७।१।१० इति भिस ऐस्भावो न। (वचोभिः) साममन्त्रैः इतरैः स्तोत्रैर्वा (प्र वृणीमहे) प्रकर्षेण भजामहे। वृङ् सम्भक्तौ क्र्यादेरिदं रूपम्। (यम्) अग्निम् परमेश्वरम् (अन्ये इत्) इतरेऽपि भक्तजनाः (सम् (इन्धते) सम्यक्तया स्वान्तःकरणेषु प्रदीपयन्ति ॥४ अथ द्वितीयः—राजपरः। (देवयतीनाम्) आत्मनो देवं विजिगीषुं राजानम् इच्छन्तीनाम् (पुरूणाम्) बहूनाम् (विशां वः) प्रजानां युष्माकं मध्यात् (यह्वम्) महान्तम् (अग्निम्) अग्निवत् तेजस्विनं वीरम्, वयम् (सूक्तैः) सूच्चारितैः (वचोभिः) उद्बोधकवचनैः साकम् (प्र वृणीमहे) प्रकृष्टतया निर्वाचयामः। वृ वरणे क्र्यादिः। (यम्) यं गुणाढ्यं पुरुषम् (अन्ये) इतरेऽपि राष्ट्रवासिनः (सम् इन्धते) समुत्साहयन्ति, समर्थयन्तीति यावत् ॥५॥ अत्र श्लेषालङ्कारः ॥५॥
Essence
यथा राष्ट्रस्योत्कर्षार्थं राजोचितनिखिलगुणगणविभूषितः कश्चिन्महान् पुरुषो राजपदाय व्रियते, तथैव सुमहान् परमेश्वरोऽस्माभिः सूक्तैः स्तुतिवचोभिर्मार्गप्रदर्शकत्वेन वरणीयः ॥५॥
Subject
अथ परमेश्वरविषयं राजविषयं चाह।
Footnote
१. ऋ० १।३६।१ अग्निं सूक्तैर्वचोभिरीमहे यं सीमिदन्य ईळते इति पाठः। २. आत्मनो देवान् दिव्यान् भोगान् गुणाँश्चेच्छन्तीनाम् इति ऋ० १।३६।१ भाष्ये द०। ३. वः युष्माकं विशां प्रजानां सुखाय इति ऋ० १।३६।१ भाष्ये द०। वः त्वाम् (अग्निम्)—इति वि०। यः युष्मदर्थम्—इति भ०। ४. ऋग्भाष्ये दयानन्दर्षिणाऽप्येष मन्त्रः परमेश्वरपक्षे योजितः।