Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 589

1875 Mantra
Devata- वरुणः Rishi- शुनःशेप आजीगर्तिः कृत्रिमो देवरातो वैश्वामित्रो वा Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
उ꣡दु꣢त्त꣣मं꣡ व꣢रुण꣣ पा꣡श꣢म꣣स्म꣡दवा꣢꣯ध꣣मं꣡ वि꣢꣯ मध्य꣣म꣡ꣳ श्र꣢थाय । अ꣡था꣢दित्य व्र꣣ते꣢ व꣣यं꣡ तवा꣢꣯ना꣣ग꣢सो꣣ अ꣡दि꣢तये स्याम ॥५८९॥

उ꣢त् । उ꣣त्तम꣢म् । व꣣रुण । पा꣡श꣢꣯म् । अ꣣स्म꣢त् । अ꣡व꣢꣯ । अ꣣धम꣢म् । वि । म꣣ध्यम꣢म् । श्र꣣थाय । अ꣡थ꣢꣯ । आ꣣दित्य । आ । दित्य । व्रते꣢ । व꣣य꣢म् । त꣡व꣢꣯ । अ꣣नाग꣡सः꣢ । अ꣣न् । आग꣡सः꣢ । अ꣡दि꣢꣯तये । अ । दि꣣तये । स्याम ॥५८९॥

Mantra without Swara
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमꣳ श्रथाय । अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥

उत् । उत्तमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथाय । अथ । आदित्य । आ । दित्य । व्रते । वयम् । तव । अनागसः । अन् । आगसः । अदितये । अ । दितये । स्याम ॥५८९॥

Samveda - Mantra Number : 589
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वरुण) मोक्षप्राप्तये सर्वैर्जनैर्व्रियमाण परमात्मन् ! त्वम् (उत्तमं पाशम्) उत्कृष्टकर्मबन्धनरूपम् उत्तमं पाशम् (अस्मत्) अस्माकं सकाशात् (उत्) उत्-श्रथाय उत्कृष्टफलप्रदानेन उन्मोचय, (अधमम्) निकृष्टकर्मबन्धनरूपम् अधमं पाशम् (अव) अवश्रथाय निकृष्टफलप्रदानेन अवमोचय (मध्यमम्) मध्यमकर्मबन्धनरूपं मध्यमं पाशम् (वि श्रथाय) विविधफलप्रदानेन विमोचय। श्रथ दौर्बल्ये, श्रथान इति प्राप्ते ‘छन्दसि शायजपि। अ० ३।१।८४’ इति श्नः शायजादेशः। (अथ) तदनन्तरम्, हे (आदित्य) नित्यमुक्त, अविनश्वर, आदित्यवत् प्रकाशमान, सर्वप्रकाशक परमात्मन् ! (तव व्रते) त्वदीयनिष्कामकर्मणि चलन्तः (वयम् अनागसः) निष्पापाः सन्तः (अदितये) मोक्षाय (स्याम) अधिकारिणः सम्पद्येमहि ॥२ उत्कृष्टनिकृष्टमध्यमकर्मभिस्तथातथाविधमेव फलं प्राप्नोतीत्यन्यत्राप्युक्तम्। ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति, पापेन पापम्, उभाभ्यामेव मनुष्यलोकम्’ (प्रश्न० ३।७) इति, “यथाकारी यथाचारी तथा भवति। साधुकारी साधुर्भवति, पापकारी पापो भवति। पुण्यः पुण्येन कर्मणा भवति, पापः पापेन” (बृहदा० ४।४।५) इति च ॥ निष्कामकर्मणश्च महत्त्वमेवं वर्ण्यते—‘योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति बह्मैव सन् ब्रह्माप्येति ॥ तदेष श्लोको भवति—यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ इति। बृहदा० ४।४।६-७ ॥ यद्वा उत्तमः पाशः आत्मनो ज्ञानादिग्रहणे ये बाधकास्तत्कृतं बन्धनम्, मध्यमः पाशः मनसः श्रेष्ठसंकल्पादौ ये बाधकास्तत्कृतं बन्धनम्, अधमः पाशः शरीरस्य व्यापारे ये बाधका रोगादयस्तत्कृतं बन्धनम्। तेभ्यः पाशेभ्यः उन्मुच्य परमेश्वरो योगो गुरुर्वाऽस्मान् सुखाधिकारिणः कुर्यात्।
Essence
मनुष्यः सर्वेषामेव सकामकर्मणां फलमवश्यं प्राप्नोति। ये तु निष्कामाः सन्तः परमेश्वरस्य व्रते निष्पापं जीवनं यापयन्ति त एव मोक्षाधिकारिणो जायन्ते ॥४॥
Subject
अथ वरुणो देवता। परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० १।२४।१५, य० १२।१२ ‘अथा वयमादित्य व्रते तवा’ इति पाठः। अथ० ७।८३।३, १८।४।६९ उभयत्र ‘अधा वयमादित्य व्रते तवा’ इति पाठः, द्वितीये स्थले ऋषिः अथर्वा। २. दयानन्दर्षिर्मन्त्रेऽस्मिन् वरुणशब्देन ऋग्वेदे स्वीकर्तुमर्हमीश्वरम् यजुर्वेदे च शत्रूणां बन्धकं राजानं गृह्णाति। ‘अदितये’ इति पदं च ऋग्वेदे ‘अखण्डितसुखाय’ इति, यजुर्वेदे च ‘पृथिवीराज्याय’ इति व्याचष्टे। यजुर्वेदभाष्ये भावार्थमित्थं लिखति—“यथेश्वरस्य गुणकर्मस्वभावानुकूला धार्मिका जनाः सत्याचरणे वर्तमानाः सन्तः पापबन्धनान्मुक्त्वा सुखिनो भवन्ति तथैवोत्तमं राजानं प्राप्य प्रजाजना आनन्दिता जायन्ते” इति।