Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 588

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
य꣢स्ये꣣द꣢मा꣣ र꣢जो꣣यु꣡ज꣢स्तु꣣जे꣢꣫ जने꣣ व꣢न꣣꣬ꣳ स्वः꣢꣯ । इ꣡न्द्र꣢स्य꣣ र꣡न्त्यं꣢ बृ꣣ह꣢त् ॥५८८॥

य꣡स्य꣢꣯ । इ꣣द꣢म् । आ꣣ । र꣡जः꣢ । आ । र꣡जः꣢꣯ । यु꣡जः꣢ । तु꣣जे꣢ । ज꣡ने꣢꣯ । व꣡न꣢꣯म् । स्व३रि꣡ति꣢ । इ꣡न्द्र꣢꣯स्य । र꣡न्त्य꣢꣯म् । बृ꣣ह꣢त् ॥५८८॥

Mantra without Swara
यस्येदमा रजोयुजस्तुजे जने वनꣳ स्वः । इन्द्रस्य रन्त्यं बृहत् ॥

यस्य । इदम् । आ । रजः । आ । रजः । युजः । तुजे । जने । वनम् । स्व३रिति । इन्द्रस्य । रन्त्यम् । बृहत् ॥५८८॥

Samveda - Mantra Number : 588
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आरजः२) लोकलोकान्तरपर्यन्तम् (युजः) सर्वैः पदार्थैः योगकारिणः (यस्य) परमेश्वरस्य (तुजे जने) क्षिप्रं कार्यकारिणि कर्मयोगिनि मनुष्ये। निघण्टौ (२।१५) तूतुजानः, तुज्यमानः, तूतुजिः इत्येतेषां क्षिप्रवाचिषु पाठात् तुज धातुः क्षिप्रार्थः। (वनम्) वननीयं सेवनीयम्। वन षण सम्भक्तौ। (स्वः) भौतिकमाध्यात्मिकं च धनम्, संसृज्यते इति शेषः, तस्य (इन्द्रस्य) परमेश्वरस्य (रन्त्यम्) रमणीयं ऐश्वर्यम् (बृहत्) महत् वर्तते ॥३॥
Essence
जगति यत्रतत्र यद् विविधं धनं विकीर्णमस्ति तत् सर्वं परमात्मन एव विद्यते। पुरुषार्थिन एव जनास्तत् प्राप्तुमर्हन्ति ॥३॥
Subject
अथ तस्य परमेश्वरस्य धनं वर्णयति।
Footnote
१. ऋ० ६।३३।१, ऋषिः जाटिकायनः। २. सायणस्तु ‘रजोयुजः’ इति समस्तं मत्वा व्याचष्टे—‘रजोयुजः ज्योतिर्भिर्युक्तस्य’ इति। तत्तु पदकारविरुद्धम्, पदपाठे ‘आरजः’ इति समस्तपदस्वीकारात् ‘युजः’ इति च पृथक् प्रदर्शनात्।