Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 587

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
इ꣢न्द्रो꣣ रा꣢जा꣣ ज꣡ग꣢तश्चर्षणी꣣ना꣢꣯मधि꣢꣫क्ष꣣मा꣢ वि꣣श्व꣡रू꣢पं꣣ य꣡द꣢स्य । त꣡तो꣢ ददाति दा꣣शु꣢षे꣣ व꣡सू꣢नि꣣ चोद꣢꣫द्राध꣣ उ꣡प꣢स्तुतं चि꣣दर्वा꣢क् ॥५८७॥

इ꣡न्द्रः꣢꣯ । रा꣡जा꣢꣯ । ज꣡ग꣢꣯तः । च꣣र्षणीना꣢म् । अ꣡धि꣢꣯ । क्ष꣣मा꣢ । वि꣣श्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । य꣢त् । अ꣣स्य । त꣡तः꣢꣯ । द꣣दाति । दाशु꣡षे꣢ । व꣡सू꣢꣯नि । चो꣣द꣢त् । रा꣡धः꣢꣯ । उ꣡प꣢꣯स्तुतम् । उ꣡प꣢꣯ । स्तु꣣तम् । चित् । अर्वा꣢क् ॥५८७॥

Mantra without Swara
इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥

इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमा । विश्वरूपम् । विश्व । रूपम् । यत् । अस्य । ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपस्तुतम् । उप । स्तुतम् । चित् । अर्वाक् ॥५८७॥

Samveda - Mantra Number : 587
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। (इन्द्रः) परमैश्वर्यवान् परमात्मा (जगतः) संसारस्य (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राड् वर्तते। (अधि क्षमा) पृथिव्याम्। क्षमायाम् इति प्राप्ते ‘सुपां सुलुक्’ अ० ७।१।३९ इति विभक्तेः आकारः। (यत् विश्वरूपम्) सर्वरूपं धनम् अस्ति, तत् (अस्य) अस्यैव परमात्मनः विद्यते। (ततः) तस्मादेव धनात् सः (दाशुषे) दानशालिने। दाशृ दाने इति धातोः क्वसुप्रत्यये ‘दाश्वान् साह्वान् मीढ्वांश्च।’ अ० ६।१।१२ इति निपात्यते। (वसूनि) धनानि (ददाति) प्रयच्छति। सः (अर्वाक्) अस्मदभिमुखम् (उपस्तुतं चित्) प्रशंसितमेव (राधः) भौतिकं धनं योगैश्वर्यं वा (चोदत्) प्रेरयेत्। चुद प्रेरणे धातोर्लेटि रूपम् ॥ अथ द्वितीयः—राजपक्षे। (इन्द्रः) शत्रूणां विदारकः, यज्ञशीलानाम् आदरयिता, निखिलसद्गुणसम्पद्युक्त एव जनः (जगतः) राष्ट्रस्य (चर्षणीनाम्) मनुष्याणाम् (राजा) नृपतिः भवितुं योग्यः (अधिक्षमा) राष्ट्रभूमौ (यद् विश्वरूपम्) विविधरूपं धनागारम् (अस्य) नृपतेः वर्तते (ततः) तस्मात् सः (दाशुषे) करप्रदात्रे प्रजाजनाय (वसूनि) धनानि (ददाति) प्रयच्छतु। लेटो रूपमिदम्। सः (उपस्तुतम्) प्रशंसितम् (राधः) धनम् (अर्वाक्) नीचैः निर्धनाभिमुखम् इत्यर्थः (चोदत्) प्रेरयेत् ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा राजराजेश्वरः परमेश्वरो दात्रे धनं ददाति तथैव मानवः सम्राडपि करादिप्रदातुः प्रजावर्गस्य सुसमृद्धिं कुर्यात्। एतदर्थमपि प्रयतेत यत् प्रजायां धनदृष्ट्याऽधिकं वैषम्यं न भवेत् ॥२॥
Subject
अथेन्द्रस्य परमात्मनो राजत्वं वर्णयन् राष्ट्रे को राजा भवितुमर्हतीत्याह।
Footnote
१. ऋ० ७।२७।३ ‘क्षमा विश्वरूपं यदस्य’ इत्यत्र ‘क्षमि विषुरूपं यदस्ति’ इति, ‘उपस्तुतं चिदर्वाक्’ इत्यत्र च ‘उपस्तुतश्चिदर्वाक्’ इति पाठः। २. दयानन्दर्षिरपि मन्त्रमिमम् ऋग्भाष्ये राजविषये व्याख्यातवान्।