Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 586

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
इ꣢न्द्र꣣ ज्ये꣡ष्ठं꣢ न꣣ आ꣡ भ꣢र꣣ ओ꣡जि꣢ष्ठं꣣ पु꣡पु꣢रि꣣ श्र꣡वः꣢ । य꣡द्दिधृ꣢꣯क्षेम वज्रहस्त꣣ रो꣡द꣢सी꣣ उ꣢꣯भे सु꣢꣯शिप्र पप्राः ॥५८६॥

इ꣡न्द्र꣢꣯ । ज्ये꣡ष्ठ꣢म् । नः꣣ । आ꣢ । भ꣣र । ओ꣡जि꣢꣯ष्ठम् । पु꣡पु꣢꣯रि । श्र꣡वः꣢꣯ । यत् । दि꣡धृ꣢꣯क्षेम । व꣣ज्रहस्त । वज्र । हस्त । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । सु꣣शिप्र । सु । शिप्र । पप्राः ॥५८६॥

Mantra without Swara
इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः । यद्दिधृक्षेम वज्रहस्त रोदसी उभे सुशिप्र पप्राः ॥

इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पुपुरि । श्रवः । यत् । दिधृक्षेम । वज्रहस्त । वज्र । हस्त । रोदसीइति । उभेइति । सुशिप्र । सु । शिप्र । पप्राः ॥५८६॥

Samveda - Mantra Number : 586
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमयशोमय परमात्मन् ! त्वम् (नः) अस्मभ्यम् (ज्येष्ठम्) प्रशस्यतमम्, (ओजिष्ठम्) ओजस्वितमम्, (पुपुरि) पूरकं पालकं वा। पिपर्ति इति पुपुरिः। पॄ पालनपूरणयोः, ‘आगमहनजनः किकिनौ लिट् च।’ अ० ३।३।१७५ इति किन् प्रत्ययो लिड्वद्भावश्च। ‘उदोष्ठ्यपूर्वस्य’। अ० ७।१।१०२ इति ऋकारस्य उत्वम्१। (श्रवः) यशः। श्रवः श्रवणीयं यशः। निरु० ११।७। (आ भर) आ हर, (यत्) यशः, वयम् (दिधृक्षेम) धारयितुमिच्छेम। हे (वज्रहस्त) कुलिशपाणिः इव यशोबाधकानां पापदुर्व्यसनादीनां चूर्णयितः ! हे (सुशिप्र) सुसृप्र सर्वव्यापक ! शिप्रशब्दो निरुक्तमते सृप धातोः सिध्यति। ‘सृप्रः सर्पणात्।.... सुशिप्रमेतेन व्याख्यातम्। निरु० ६।१७।’ त्वम् (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ (पप्राः) यशसा पूरितवानसि। प्रा पूरणे, अदादिः। लङि ‘बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ, द्वित्वे, अडागमाभावे सिपि रूपम् ॥१॥
Essence
यथा परमात्मना रचितं सकलमपि ब्रह्माण्डं यशोमयं वर्तते तथा वयमपि यशस्विनः स्याम ॥१॥
Subject
अथाद्यानां तिसृणाम् इन्द्रो देवता। तत्रादौ परमात्मानं यशः प्रार्थयते।
Footnote
१. ऋ० ६।४६।५, अथ० २०।८०।१, उभयत्र ऋषिः शंयुः, ‘पुपुरि’ इत्यत्र ‘पपुरि’, उत्तरार्द्धे च ‘येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पप्राः’ इति पाठः। २. निरुक्तमते तु ‘पपुरि’ शब्दवत् ‘पपुरि’ शब्दोऽपि पृणातेः प्रीणातेर्वेति मन्तव्यम्। ‘पपुरिः, पृणातेः प्रीणातेर्वा’ इति निरुक्तम् (४।२४)।