Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 585

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋजिश्वा भारद्वाजः Chhand- ककुप् Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
य꣢ उ꣣स्रि꣢या꣣ अ꣢पि꣣ या꣢ अ꣣न्त꣡रश्म꣢꣯नि꣣ नि꣡र्गा अकृ꣢꣯न्त꣣दो꣡ज꣢सा । अ꣣भि꣢ व्र꣣जं꣡ त꣢त्निषे꣣ ग꣢व्य꣣म꣡श्व्यं꣢ व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज । ओ꣡३म् व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज ॥५८५॥

यः꣢ । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । अ꣡पि꣢꣯ । याः । अ꣣न्तः꣢ । अ꣡श्म꣢꣯नि । निः । गाः । अ꣡कृ꣢꣯न्तत् । ओ꣡ज꣢꣯सा । अ꣢भि꣣ । व्र꣣ज꣢म् । त꣣त्निषे । ग꣡व्य꣢꣯म् । अ꣡श्व्य꣢꣯म् । व꣣र्मी꣢ । इ꣣व । धृष्णो । आ꣢ । रु꣣ज । ओ꣢३म् । व꣣र्मी꣡व꣢धृष्ण꣣वा꣡रु꣢ज ॥५८५॥

Mantra without Swara
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज । ओ३म् वर्मीव धृष्णवा रुज ॥

यः । उस्रियाः । उ । स्रियाः । अपि । याः । अन्तः । अश्मनि । निः । गाः । अकृन्तत् । ओजसा । अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मी । इव । धृष्णो । आ । रुज । ओ३म् । वर्मीवधृष्णवारुज ॥५८५॥

Samveda - Mantra Number : 585
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उस्रियाः अपि२) निस्सरणयोग्या अपि सत्यः (याः अश्मनि अन्तः) मेघाभ्यन्तरे अवरुद्धा भवन्ति ताः। अश्मा इति मेघनाम। निघं० १।१०। (गाः) सूर्यदीधितीः। गावः इति रश्मिनाम। निघं० १।५। (यः) यो भवान् (ओजसा) स्वप्रतापेन (निर् अकृन्तत्३) निस्सारयति। स त्वम् (गव्यम्) भूमिसम्बन्धिनम् (अश्व्यम्) सूर्यसम्बन्धिनं च। असौ वा आदित्यो अश्वः। तै० ३।९।२३।२। (व्रजम्) मण्डलम् (अभि तत्निषे) अभितो विस्तारयसि। हे (धृष्णो) विपद्धर्षणशील परमात्मन् ! त्वम् (वर्मी इव) कवचधारी योद्धेव (आरुज) अस्माकं विपदः शत्रून् वा विदारय ॥८॥ अत्रोपमालङ्कारः। किञ्च ‘उस्रियाः अपि प्रवहमाना अपि अन्तरश्मनि निरुद्धाः’ इति विरोधः। प्रस्रवणयोग्या अपि अश्मनि रुद्धा इति परिहारः। तेन विरोधाभासोऽलङ्कारः ॥८॥
Essence
यथा परमेश्वरो मध्यस्था मेघबाधां विच्छिद्य सूर्यरश्मीन् भूमौ प्रसारयति, तथैव जीवात्मा योगमार्गे समागतान् सकलान् विघ्नान् विदार्य साफल्यमधिगच्छेत् ॥८॥ अत्रापि सोमनाम्ना परमात्मनस्तदानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके द्वितीयार्द्धे चतुर्थी दशतिः ॥ इति पञ्चमेऽध्याये एकादशः खण्डः ॥ समाप्तश्च पञ्चमोऽध्यायः ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवती- देवीतनयेन हरिद्वारीयगुरुकुलकांगड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य- भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये पावमानं  काण्डं पर्व वा समाप्तिमगात् ॥
Subject
अथ सोमः परमेश्वरो वर्ण्यते।
Footnote
१. ऋ० ९।१०८।६ ‘अपि या अन्तरश्मनि’ इत्यत्र ‘अप्या अन्तरश्मनो’ इति पाठः। २. सायणस्तु ‘अपियाः’ इत्येकं पदं स्वीकृत्य “अपियाः अप्याः, आप इत्यन्तरिक्षनाम (निघं० १।३।८) अस्माद् ‘भवे छन्दसि’ पा० ४।४।११० इति यत्, अन्तरिक्षस्थाः” इति व्याख्यातवान्, तत्तु पदकारविरुद्धम्, पदपाठे ‘अपि याः’ इति विभिद्य दर्शनात्। भरतोऽपि ‘अपियाः अप्सु अन्तरिक्षे भवाः’ इत्येव व्याचष्टे। ३. समानेनाख्यानात् अत्र प्रथमपुरुषः। लोकेऽपि तथा दृश्यते, ‘य एवमकार्षीत् स त्वमिति’—इति भरतः।