Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 584

1875 Mantra
Devata- पवमानः सोमः Rishi- ऊरुराङ्गिरसः Chhand- ककुप् Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥

ए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥

Mantra without Swara
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥

एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥

Samveda - Mantra Number : 584
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसपक्षे। (एषः) अयम् (स्यः) सः अस्माभिः पर्वतादानीतः (अव्याः वारेभिः) अवेर्बालैः, अविबालनिर्मितदशापवित्रैरित्यर्थः। (सुतः) अभिषुतः, (मदिन्तमः) अतिशयानन्दजनकः सोमौषधिरसः (अपाम्) उदकानाम् (ऊर्मिः इव) तरङ्गः इव (क्रीडन्) क्रीडां कुर्वन् (धारया) धारारूपेण (पवते) द्रोणकलशं गच्छति। पवते गतिकर्मा। निघं० २।१४ ॥ अथ द्वितीयः—परमात्मपक्षे। (एषः अयम् अनुभूयमानः (स्यः) स प्रसिद्धः (अव्याः वारेभिः) अविबालनिर्मितदशापवित्रैरिव पवित्रताकारकैः यमनियमादिभिर्योगाङ्गैः (सुतः) हृदये प्रकटीकृतः (मदिन्तमः) अतिशयानन्दजनकः सोमः परमात्मा (अपाम् ऊर्मिः इव) नदीनां तरङ्गः इव (क्रीडन्) क्रीडां कुर्वन् (धारया) आनन्दप्रवाहेण सह (पवते) मदीयमात्मानं प्राप्नोति ॥७॥ अत्र श्लेष उपमालङ्कारश्च। अपां तरङ्ग इव क्रीडन् सोमौषधिरसो यथा दशापवित्रैः सुतः सन् द्रोणकलशं प्राप्नोति तथा यमनियमादिभिर्योगसाधनैः हृदये प्रकटीकृतः क्रीडन्निव परमात्मसोम आनन्दप्रवाहेण सार्द्धं योगिनामात्मानमधिगच्छति ॥७॥
Essence
समाधिस्था उपासकाः परमात्मनः सकाशाद् वेगेन स्वात्मानमागच्छन्तीमानन्दधारां साक्षादनुभवन्ति ॥७॥
Subject
अथ सोमो धारया पवते इत्याह।
Footnote
१. ऋ० ९।१०८।५।