Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 583

1875 Mantra
Devata- पवमानः सोमः Rishi- शक्तिर्वासिष्ठः Chhand- ककुप् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
त्वं꣢ ह्या३꣱ङ्ग꣡ दै꣢व्यं꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥५८३॥

त्व꣢म् । हि । अ꣣ङ्ग꣢ । दै꣣व्यम् । प꣡व꣢꣯मान । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥५८३॥

Mantra without Swara
त्वं ह्या३ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥

त्वम् । हि । अङ्ग । दैव्यम् । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥५८३॥

Samveda - Mantra Number : 583
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अङ्ग) हे प्रिय (पवमान) पवित्रतासम्पादक परमात्मसोम ! (त्वम् हि) त्वं खलु (दैव्यम्) देवेभ्यो विद्वद्भ्यो हितं कर्म, धारयसीति शेषः। तदेव निदर्शयति—(द्युमत्तमः) अतिशयेन देदीप्यमानः त्वम् (जनिमानि) जन्मानि, जन्मधारिणो विदुषः सदाचारिणो मनुष्यान् इत्यर्थः। अत्र जनी प्रादुर्भावे धातोः ‘जनिमृङ्भ्यामिमनिन्। उ० ४।१५०’ इति इमनिन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (अमृतत्वाय) सांसारिकदुःखविमोक्षाय (घोषयन्) अधिकारित्वेन विज्ञापयन् भवसि ॥६॥
Essence
परमेश्वरो हि कर्मानुसारं फलं प्रयच्छन् देवजनानां हितमेव साधयति। स एव मोक्षाधिकारिणो जनान् मोक्षप्रदानेन सत्करोति ॥६॥
Subject
अथ सोमः परमात्मा किं करोतीत्याह।
Footnote
१. ऋ० ९।१०८।३ ‘दैव्यं, घोषयन्’ इत्यत्र क्रमेण ‘दैव्या, घोषयः’ इति पाठः। साम० ९३८।