Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 582

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋणंचयो राजर्षिः Chhand- यवमध्या गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥५८२॥

सः꣢ । सु꣣न्वे । यः꣢ । व꣡सू꣢꣯नाम् । यः । रा꣣या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥५८२॥

Mantra without Swara
स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥५८२॥

Samveda - Mantra Number : 582
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (सोमः) सर्वोत्पादको रसमयः परमेश्वरः (सुन्वे) ध्यानद्वारा हृदि अभिषूयते, (यः वसूनाम्) रश्मीनाम्। वसु इति रश्मिनाम। निघं० १।५। (यः रायान्) धनानाम्, (यः इडानाम्) भूमीनाम्, वाचाम्, अन्नानां गवां च। इडेति पृथिवीनाम, वाङ्नाम, अन्ननाम, गोनाम च। निघं० १।१, १।११, २।७, २।११। (यः) यश्च (सुक्षितीनाम्) श्रेष्ठानां मनुष्याणाम्। क्षितय इति मनुष्यनाम। निघं० २।३। (आनेता) प्रापयिता, भवतीति शेषः ॥५॥ अत्र यो य इति चतुष्कृत्वः पुनरुक्तिः स एवैतेषां पदार्थानामानेताऽस्ति नान्यः कोऽपीति द्योतनार्था। प्रथमदृष्ट्या ‘वसूनां-रायाम्’ इत्युभयोर्धनवाचित्वादेकार्थता, एवम् ‘इडानाम्-सुक्षितीनाम्’ इत्युभयोः पृथिवीवाचित्वादेकार्थता प्रतीयते, व्याख्यातप्रकारेण चार्थभेदः, अतः पुनरुक्तवदाभासोऽलङ्कारः ॥५॥
Essence
यः परमेश्वरो जगति दृश्यमानानां सर्वेषामेव पदार्थानां जनकः प्रापयिता च वर्तते तदुपासनया सर्वैरानन्दरसः प्राप्तव्यः ॥५॥
Subject
अथ सोमः परमेश्वरः कीदृशोऽस्तीत्याह।
Footnote
१. ऋ० ९।१०८।१३।