Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 581

1875 Mantra
Devata- पवमानः सोमः Rishi- कृतयशा आङ्गिरसः Chhand- ककुप् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ए꣣त꣢मु꣣ त्यं꣡ म꣢द꣣च्यु꣡त꣢ꣳ स꣣ह꣡स्र꣢धारं वृष꣣भं꣡ दिवो꣣दु꣡ह꣢म् । वि꣢श्वा꣣ व꣡सू꣢नि꣣ बि꣡भ्र꣢तम् ॥५८१॥

ए꣣त꣢म् । उ꣣ । त्य꣢म् । म꣣दच्यु꣡त꣢म् । म꣣द । च्यु꣡त꣢꣯म् । स꣣ह꣡स्र꣢धारम् । स꣣ह꣡स्र꣢ । धा꣣रम् । वृषभ꣢म् । दि꣣वोदु꣡ह꣢म् । दि꣣वः । दु꣡ह꣢꣯म् । वि꣡श्वा꣢꣯ । व꣡सू꣢꣯नि । बि꣡भ्र꣢꣯तम् ॥५८१॥

Mantra without Swara
एतमु त्यं मदच्युतꣳ सहस्रधारं वृषभं दिवोदुहम् । विश्वा वसूनि बिभ्रतम् ॥

एतम् । उ । त्यम् । मदच्युतम् । मद । च्युतम् । सहस्रधारम् । सहस्र । धारम् । वृषभम् । दिवोदुहम् । दिवः । दुहम् । विश्वा । वसूनि । बिभ्रतम् ॥५८१॥

Samveda - Mantra Number : 581
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एतम् उ) इमं सर्वेषां समीपस्थम्, (त्यम्) प्रसिद्धम्, (मदच्युतम्) आनन्दस्राविणम्, (सहस्रधारम्) सहस्रम् अनेकाः धाराः सत्याहिंसान्यायदयादिगुणानां प्रवाहाः यस्मात् तम्, (वृषभम्) महाबलम्, (दिवोदुहम्) द्युरूपाया धेनोः दोग्धारम्, दिवः सूर्यरश्मिमेघजलादीनां वर्षकमित्यर्थः। अत्र दोहनसम्बन्धाद् दिवि धेनुत्वारोपः कार्यः। (विश्वा) विश्वानि (वसूनि) ऐश्वर्याणि (बिभ्रतम्) धारयन्तम् सोमं परमात्मानम् ‘आसोत परिषिञ्चत’ चेति पूर्वमन्त्रादाकृष्यते। हृदये प्रकटयत श्रद्धारसैः स्नपयत चेति भावः ॥४॥
Essence
मनुष्यैरानन्दप्राप्तये रसागारः सहस्रधाराभी रसवर्षकश्च परमात्मसोमः स्वहृदि श्रद्धाभावेन धारणीयः ॥४॥
Subject
अथ कीदृशं सोमाख्यं परमेश्वरं श्रद्धारसैः सिञ्चतेत्याह।
Footnote
१. ऋ० ९।१०८।११ ‘दिवोदुहम्’ इत्यत्र ‘दिवो दुहुः’ इति पाठः।