Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 580

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋजिश्वा भारद्वाजः Chhand- ककुप् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
आ꣡ सो꣢ता꣣ प꣡रि꣢ षिञ्च꣣ता꣢श्वं꣣ न꣡ स्तोम꣢꣯म꣣प्तु꣡र꣢ꣳ रज꣣स्तु꣡र꣢म् । व꣣नप्रक्ष꣡मु꣢द꣣प्रु꣡त꣢म् ॥५८०॥

आ꣢ । सो꣣त । प꣡रि꣢꣯ । सि꣣ञ्चत । अ꣡श्व꣢꣯म् । न । स्तो꣡म꣢꣯म् । अ꣣प्तु꣡र꣢म् । र꣣जस्तु꣡र꣢म् । व꣣नप्रक्ष꣢म् । व꣣न । प्रक्ष꣢म् । उ꣣दप्रु꣡त꣢म् । उ꣣द । प्रु꣡त꣢꣯म् ॥५८०॥

Mantra without Swara
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरꣳ रजस्तुरम् । वनप्रक्षमुदप्रुतम् ॥

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्तुरम् । रजस्तुरम् । वनप्रक्षम् । वन । प्रक्षम् । उदप्रुतम् । उद । प्रुतम् ॥५८०॥

Samveda - Mantra Number : 580
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः यूयम् (स्तोमम्) समूहरूपेण विद्यमानम्, (अप्तुरम्) यः अप्सु नदीनदसमुद्रवर्तिषु उदकेषु तोरयति वेगेन गमयति यानानि तम्। अप्पूर्वकात् तुर त्वरणे धातोर्णिजन्तात् क्विप्। (रजस्तुरम्) यः रजसि अन्तरिक्षलोके तोरयति वेगेन गमयति यानानि तम्, (वनप्रक्षम्) यो वनानि अरण्यानि पृणक्ति संस्पृशति दहति वा तम्। वनपूर्वात् पृची सम्पर्के धातोः बाहुलकाद् औणादिकः सः प्रत्ययः। (उदप्रुतम्) यः उदकं प्रवयति वाष्पीकृत्य ऊर्ध्वं गमयति तम्। उदकपूर्वात् प्रुङ् गतौ धातोः क्विप्। उदकस्य उदभावः। (अश्वम्२) वह्निविद्युदादिरूपम् अग्निम् (न) यथा, शिल्पिनः (आ सुन्वन्ति) उत्पादयन्ति (परि सिञ्चन्ति) जलादिभिः परितः संयोजयन्ति, तथा (स्तोमम्) स्तुतिपात्रम्। स्तूयते इति स्तोमः। ष्टुञ् स्तुतौ धातोः ‘अर्तिस्तुसु०। उ० १।१४०’ इति मन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (अप्तुरम्३) यः अपः प्राणान् तोरयति प्रेरयति तम्। आपो वै प्राणाः। श० ३।८।२।४, प्राणा वा आपः। तै० ३।२।५।२। (रजस्तुरम्) यो रजांसि पृथिवीचन्द्रसूर्यनक्षत्रादिलोकान् तोरयति शीघ्रं गमयति तम्, (वनप्रक्षम्) यो वनानि सूर्यरश्मीन् मेघोदकानि च पर्षति सिञ्चति भूमण्डले तम्। वनम् इति रश्मिनाम उदकनाम च। निघं० १।५, १।२२, पृषु सेचने, भ्वादिः। (उदप्रुतम्) यः उदकानि शरीरस्थानि रुधिराणि नदीभवानि जलानि च प्रवयते प्रवाहयति तम् परमात्मसोमम् (आ सोत) आ सुनुत हृदये प्रकटयत। षुञ् अभिषवे, स्वादिः, लोटि ‘तप्तनप्तनथनाश्च। अ० ७।१।१४५’ इति तस्य तबादेशः। पित्त्वान्ङित्वाभावे न गुणनिषेधः। विकरणस्य लुक्। (परि सिञ्चत) श्रद्धारसैः सर्वतः सिञ्चत च ॥३॥ अत्र श्लिष्टोपमालङ्कारः। आपः, वनम्, उदकम् इति सर्वेषां जलनामसु पठितत्वात् (निघं० १।१२), निरुक्ते रजःशब्दस्यापि च जलवाचित्वात् (निरु० १२।७)। ‘अप्तुरम्-रजस्तुरम्-वनप्रक्षम्- उदप्रुतम्’ इति सर्वे समानार्थकाः प्रतीयन्ते, किन्तु वस्तुतः प्रदर्शितव्याख्यानानुसारं ते भिन्नार्थाः, अतः पुनरुक्तवदाभासोऽलङ्कारः। तकारमकारादीनामावृत्तौ च वृत्त्यनुप्रासः। ‘तुरं-तुरम्’ इत्यत्र लाटानुप्रासः ॥३॥
Essence
यथा शल्पिनो विद्युदाद्यग्निं यानेषु संयोजयन्ति जलवाय्वादिभिश्च सिञ्चन्ति तथा सर्वे मनुष्याः प्राणानां प्रेरकं, द्यावापृथिव्यादिलोकानां धारकं, सूर्यकिरणानां मेघजलानां च वर्षकं परमात्मानं हृदये संयोज्य श्रद्धारसेनाभिषिञ्चेयुः ॥३॥
Subject
अथ जनान् परमात्माराधनाय प्रेरयति।
Footnote
१. ऋ० ९।१०८।७ ‘वनप्रक्ष’ इत्यत्र ‘वनक्रक्ष’ इति पाठः। साम० १३९४। २. ‘प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम्। ऋ० १०।१८८।१’ इत्याग्नेये जातवेदसे सूक्ते अग्निरश्वः उक्तः। अग्निरेव यदश्वः। श० ६।३।३।२२ इति च ब्राह्मणम्। ३. (अप्तुरम्) योऽपः प्राणान् जलानि वा तोरयति प्रेरयति तम् इति ऋ० ३।२७।११ भाष्ये द०।