Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 578

1875 Mantra
Devata- पवमानः सोमः Rishi- गौरवीतिः शाक्त्यः Chhand- ककुप् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢स्व꣣ म꣡धु꣢मत्तम꣣ इ꣡न्द्रा꣢य सोम क्रतु꣣वि꣡त्त꣢मो꣣ म꣡दः꣢ । म꣡हि꣢ द्यु꣣क्ष꣡त꣢मो꣣ म꣡दः꣢ ॥५७८॥

प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । इ꣡न्द्रा꣢꣯य । सो꣣म । क्रतुवि꣡त्त꣢मः । क्र꣣तु । वि꣡त्त꣢꣯मः । म꣡दः꣢꣯ । म꣡हि꣢꣯ । द्यु꣣क्ष꣡त꣢मः । द्यु꣣क्ष꣡ । तमः꣢꣯ । म꣡दः꣢꣯ ॥५७८॥

Mantra without Swara
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥

पवस्व । मधुमत्तमः । इन्द्राय । सोम । क्रतुवित्तमः । क्रतु । वित्तमः । मदः । महि । द्युक्षतमः । द्युक्ष । तमः । मदः ॥५७८॥

Samveda - Mantra Number : 578
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) आनन्दरसागार परमात्मन् ! (मधुमत्तमः) अतिशयेन मधुरः, (क्रतुवित्तमः) अतिशयेन कर्मणः प्रज्ञायाश्च लम्भकः (मदः) हर्षकरश्च त्वम् (इन्द्राय) मदीयाय आत्मने (पवस्व) प्रस्रव, आनन्दरसं प्रवाहय। (मदः) त्वज्जनितः आनन्दः (महि) अत्यर्थम्। महि यथा स्यात्तथेति क्रियाविशेषणमेतत्। (द्युक्षतमः) अतिशयेन तेजसो निवासकः भवति। द्यां दीप्तिं क्षाययति निवासयतीति द्युक्षः, अतिशयेन द्युक्षः द्युक्षतमः ॥१॥ ‘तमो मदः’ इत्यस्यावृत्तौ यमकालङ्कारः। ‘तम, तमो, तमो’ इत्यत्र च वृत्त्यनुप्रासः ॥१॥
Essence
मधुरमधुरं ज्ञानकर्मोपदेष्टारमानन्दप्रदं परमात्मानं ध्यायं ध्यायं योगिनो निरतिशयानन्दरसनिर्भरा जायन्ते ॥१॥
Subject
तत्राद्ये मन्त्रे सोमं परमात्मानं प्रार्थयते।
Footnote
१. वैदिकयन्त्रालयमुद्रितायां सामसंहितायां तु अष्टम्या उरुराङ्गिरसः ऋषिर्निर्दिष्टः। २. ऋ० ९।१०८।१, साम० ६९२।