Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 575

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣स्म꣡भ्यं꣢ त्वा वसु꣣वि꣡द꣢म꣣भि꣡ वाणी꣢꣯रनूषत । गो꣡भि꣢ष्टे꣣ व꣡र्ण꣢म꣣भि꣡ वा꣢सयामसि ॥५७५॥

अ꣣स्म꣡भ्य꣢म् । त्वा꣣ । वसुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣣भि꣢ । वा꣡णीः꣢ । अ꣣नूषत । गो꣡भिः꣢꣯ । ते꣣ । व꣡र्ण꣢꣯म् । अ꣣भि꣢ । वा꣣सयामसि ॥५७५॥

Mantra without Swara
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥

अस्मभ्यम् । त्वा । वसुविदम् । वसु । विदम् । अभि । वाणीः । अनूषत । गोभिः । ते । वर्णम् । अभि । वासयामसि ॥५७५॥

Samveda - Mantra Number : 575
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे सोमाख्य परमात्मन् ! (अस्मभ्यम्) नः (वसुविदम्) ऐश्वर्यस्य लम्भकम् (त्वा अभि) त्वाम् अभिलक्ष्य (वाणीः) अस्माकं वाण्यः (अनूषत) स्तुवन्ति। णु स्तुतौ, लडर्थे लुङि छान्दसं रूपम्। वयम् (गोभिः) वेदवाग्भिः (ते) तव (वर्णम्) स्वरूपम् (अभिवासयामसि) स्वात्मनि निवासयामः ॥ अथ द्वितीयः—वैद्यपरः। यः अभिषुणोति सोमाद्योषधीनां रसान् भैषज्यार्थं स सोमो वैद्यः।२ ‘हे वैद्यराज ! (अस्मभ्यम्) रुग्णेभ्यो नः (वसुविदम्) स्वास्थ्यसम्पत्प्रापकम् (त्वा अभि) त्वामभिलक्ष्य (वाणीः) कृतज्ञानामस्माकं वाचः (अनूषत) स्तुवन्ति, तव आयुर्वेदज्ञानं प्रशंसन्ति’ इत्यातुराणामुक्तिः। अथ वैद्योक्तिः—हे त्वग्रोगग्रस्त जन ! (गोभिः) गोविकारैः पयोदधिघृतमूत्रगोमयलक्षणैः वयम् (ते) तव (वर्णम्) स्वाभाविकं त्वग्रूपम् (अभिवासयामसि) त्वयि निवासयामः, कुष्ठादिरोगवशाद् विकृतं तव त्वग्रूपम् अपनीय स्वाभाविकं त्वग्वर्णं जनयाम इति भावः। एतेन कुष्ठादीनां त्वग्रोगाणां पञ्चगव्येन चिकित्सा सूचिता भवति ॥१०॥ अत्र श्लेषालङ्कारः ॥१०॥
Essence
सर्वैश्वर्यप्रदस्य परमात्मनः सत्यं शिवं सुन्दरं सच्चिदानन्दमयं स्वरूपमस्माभिः स्वहृदये धारणीयम्। तथैव सद्वैद्योक्तरीत्या पञ्चगव्यचिकित्सया त्वगादीनां रोगा अपनेयाः ॥१०॥
Subject
अथ सोमाख्यं परमात्मानं वैद्यं चाह।
Footnote
१. ऋ० ९।१०४।४ ऋषी पर्वतनारदौ, द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ। २. सोमम् सोमलताद्योषधिसारपातारम् (वैद्यम्) इति ऋ० २।११।११ भाष्ये द०।