Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 574

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
गो꣡म꣢न्न इन्दो꣣ अ꣡श्व꣢वत्सु꣣तः꣡ सु꣢दक्ष धनिव । शु꣡चिं꣢ च꣣ व꣢र्ण꣣म꣢धि꣣ गो꣡षु꣢ धारय ॥५७४॥

गो꣡म꣢꣯त् । नः꣣ । इन्दो । अ꣡श्व꣢꣯वत् । सु꣣तः꣢ । सु꣣दक्ष । सु । दक्ष । धनिव । शु꣡चि꣢꣯म् । च꣣ । व꣡र्ण꣢꣯म् । अ꣡धि꣢꣯ । गो꣡षु꣢꣯ । धा꣣रय ॥५७४॥

Mantra without Swara
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । शुचिं च वर्णमधि गोषु धारय ॥

गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय ॥५७४॥

Samveda - Mantra Number : 574
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुदक्ष) सुसमृद्ध। दक्षतिः समृद्धिकर्मा। निरु० १।६। (इन्दो) चन्द्रः समुद्राणामिव जनानां समृद्धिकर परमात्मन्, राजन्, आचार्य वा ! (सुतः) हृदये प्रकटितः, राष्ट्रे निर्वाचितः, समित्पाणिभिरस्माभिः शिष्यैः वृतो वा त्वम् (नः) अस्मभ्यम् (गोमत्) धेनुयुक्तं, पृथिवीयुक्तं वेदवाग्युक्तं च, (अश्ववत्) तुरगयुक्तं प्राणयुक्तं च रयिमिति शेषः (धनिव) धन्वय प्रापय। धन्वतिः गतिकर्मा। निघं० २।१४। अत्र णिजर्थगर्भः। ततो ‘धन्व’ इति प्राप्ते इकारोपजनश्छान्दसः। ऋग्वेदे ‘धन्व’ इत्येव पाठः। (गोषु अधि) राष्ट्रभूमिषु (शुचिं वर्णं च) पवित्रहृदयं ब्राह्मणादिवर्णं च, यद्वा (गोषु अधि) वाणीषु (शुचिं वर्ण च) पवित्रम् ॐकाररूपम् अक्षरं च (धारय) धेहि ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
परमेश्वरो राजाऽऽचार्यो वा स्वयं धनविद्यादिना सुसमृद्धः सन् कृपयास्मभ्यमपि धनज्ञानादिकं प्रयच्छेत्। यस्मिन् राष्ट्रे पवित्रहृदया ब्राह्मणक्षत्रियादयो वर्णा जायन्ते, यत्र प्रजानां वाणीषु ॐकाररूपमक्षरं च जपादिरूपेण सततं विराजते तद् राष्ट्रं खलु धन्यमुच्यते ॥९॥
Subject
अथ परमात्मानं राजानमाचार्यं च प्रार्थयते।
Footnote
१. ऋ० ९।१०५।४ ‘धनिव’, ‘शुचिं च’, ‘धारय’ इत्यत्र क्रमेण ‘धन्व’, ‘शुचिं ते’, ‘दीधरम्’ इति पाठः। साम० १६११।