Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 572

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥५७२॥

सो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥५७२॥

Mantra without Swara
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥

सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥५७२॥

Samveda - Mantra Number : 572
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) ब्रह्मानन्दरसः (पुनानः) उपासकं पवित्रं कुर्वन् (ऊर्मिणा) तरङ्गेण साकम् (अव्यं वारम्) ऊर्णामयदशापवित्रमिव दोषनिवारकम् अविनश्वरं जीवात्मानं प्रति (वि धावति) वेगेन गच्छति। (वाचः) प्रोच्चारितायाः स्तुत्यात्मिकायाः गिरः (अग्रे) पूर्वमेव (पवमानः) धारारूपेण प्रवहन् सः। पवते गतिकर्मा। निघं० २।१४। (कनिक्रदत्) कल-कलध्वनिमिव कुर्वन्, अस्तीति शेषः। ‘दाधर्तिदर्धर्ति०। अ० ७।४।६५’ इति क्रन्देर्यङ्लुगन्तात् शतरि निपात्यते ॥७॥ अत्र ब्रह्मानन्दे कारणभूतायाः स्तुतिवाचः उच्चारणात् पूर्वमेव ब्रह्मानन्दप्रवाहस्योदयवर्णनात् कारणात् प्राक् कार्योदयरूपोऽतिशयोक्तिरलङ्कारः ॥७॥
Essence
उपासकैर्ध्यातः परमेश्वरः स्वसकाशादानन्दरसस्य प्रचुरा धारा उपासकानां हृदये प्रेरयति ॥७॥
Subject
अथ पुनर्ब्रह्मानन्दरसविषयमाह।
Footnote
१. ऋ० ९।१०६।१० ‘ऊर्मिणाव्यं’ इत्यत्र ‘ऊर्मिणाव्यो’ इति पाठः। साम० ९४०।