Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 571

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुराप्सवः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा । आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥५७१॥

प꣡व꣢꣯स्व । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्दो꣢꣯ । धा꣡रा꣢꣯भिः । ओ꣡ज꣢꣯सा । आ । क꣣ल꣡श꣢म् । म꣡धु꣢꣯मान् । सो꣣म । नः । सदः ॥५७१॥

Mantra without Swara
पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥

पवस्व । देववीतये । देव । वीतये । इन्दो । धाराभिः । ओजसा । आ । कलशम् । मधुमान् । सोम । नः । सदः ॥५७१॥

Samveda - Mantra Number : 571
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसेन क्लेदयितः रसागार परमात्मन् ! त्वम् (देववीतये) देवानां दिव्यगुणानां वीतिः उत्पत्तिः देववीतिः, तस्यै। देववीतिः इति पदस्य दासीभारादित्वात् ‘कुरुगार्हपत०। अ० ६।२।४२’ इत्यनेन पूर्वपदप्रकृतिस्वरः। (धाराभिः) प्रवाहसन्ततिभिः सह (ओजसा) वेगेन (पवस्व) अस्माकमन्तः-करणे प्रवाहितो भव। हे (सोम) जगदीश्वर ! (मधुमान्) मधुरानन्दोपेतः त्वम् (नः) अस्माकम् (कलशम्) कलाभिः पूर्णम् आत्मानम् (आ सधः) आगत्य स्थितो भव ॥६॥ अत्र श्लेषेण भौतिकसोमपरोऽप्यर्थो ग्राह्यः। तेन सोमपरमात्मनोरुपमानोपमेयभावः सूचितो भवति। तत उपमाध्वनिः ॥६॥
Essence
यथा सोमौषधिरसो धाराभिर्द्रोणकलशमागच्छति तथा मधुरो ब्रह्मानन्दरस आत्मकलशं समागच्छेत् ॥६॥
Subject
अथानन्दरसनिर्झरणं प्रार्थयते।
Footnote
१. ऋ० ९।१०६।७, साम० १३२६।