Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 57

1875 Mantra
Devata- यूप Rishi- कण्वो घौरः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ऊ꣣र्ध्व꣢ ऊ꣣ षु꣡ ण꣢ ऊ꣣त꣢ये꣣ ति꣡ष्ठा꣢ दे꣢वो꣡ न स꣢꣯वि꣣ता꣢ । ऊ꣣र्ध्वो꣡ वाज꣢꣯स्य꣣ स꣡नि꣢ता꣣ य꣢द꣣ञ्जि꣡भि꣢र्वा꣢घ꣡द्भि꣢र्वि꣣ह्व꣡या꣢महे ॥५७॥

ऊ꣣र्ध्वः꣢ । ऊ꣣ । सु꣢ । नः꣢ । ऊत꣡ये꣣ । ति꣡ष्ठ꣢꣯ । दे꣣वः꣢ । न । स꣣विता꣢ । ऊ꣣र्ध्वः꣢ । वा꣡ज꣢꣯स्य । स꣡नि꣢꣯ता । यत् । अ꣣ञ्जिभिः꣢ । वा꣣घ꣡द्भिः꣢ । वि꣣ह्व꣡या꣢महे । वि꣣ । ह्व꣡या꣢꣯महे ॥५७॥

Mantra without Swara
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥

ऊर्ध्वः । ऊ । सु । नः । ऊतये । तिष्ठ । देवः । न । सविता । ऊर्ध्वः । वाजस्य । सनिता । यत् । अञ्जिभिः । वाघद्भिः । विह्वयामहे । वि । ह्वयामहे ॥५७॥

Samveda - Mantra Number : 57
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे यूप२ यूपवदुच्छ्रित परमात्मन् ! त्वम् (नः) अस्माकम् (ऊतये) रक्षणाय (देवः) प्रकाशकः (सविता न) सूर्यः इव (उ) निश्चयेन सु सम्यक् (ऊर्ध्वः) अस्माकं हृदये समुन्नतः (तिष्ठ) वर्त्तस्व। संहितायां द्व्यचोऽतस्तिङः।’ अ० ६।३।१३५ इति दीर्घः। (ऊर्ध्वः) समुन्नतः सन् (वाजस्य) आत्मिकबलस्य (सनिता३) प्रदाता भव। षणु दाने, तृनि रूपम्। (यत्) यस्मात् (अञ्जिभिः४) स्वच्छीकृतैः। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, औणादिकः इन्। (वाघद्भिः) स्तुतिवहनशीलैः मनोबुद्धीन्द्रियरूपैः ऋत्विग्भिः। वाघतः इति ऋत्विङ्नाम। निघं० ३।१८। वाघतः वोढारः इति निरुक्तम्। ११।१६। वयं त्वाम् (वि ह्वयामहे) विशेषेण आह्वयामः (स्तुमः)। ऊ इत्यत्र ‘इकः सुञि।’ अ० ६।३।१३४ इति दीर्घः। षु इत्यत्र सुञः।’ अ० ८।३।१०७ इति मूर्धन्यादेषः। ण इत्यत्र नश्च धातुस्थोरुषुभ्यः।’ अ० ८।४।२७ इति षत्वम् ॥३॥५ अत्रोपमेयनिगरणपूर्वकं परमात्मनि यूपत्वारोपादतिशयोक्ति- रलङ्कारः, ऊर्ध्वः देवो न सविता इत्यत्र च पूर्णोपमा ॥३॥
Essence
परमात्मानं हि यूपवत् सूर्यवच्च स्वहृदि यदा वयं समुन्नमामस्तदा महत् फलं सोऽस्मभ्यं प्रयच्छति ॥३॥
Subject
अथ यूपो देवता। यूपवदुन्नतः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० १।३६।१३, य० ११।४२। उभयत्र देवता अग्निः। २. इयं यूपस्य उच्छ्रयणे अनूच्यते—इति भ०। हे यूप यद्वा यूपात्मकदारुनिष्ठ अग्ने—इति सा०। ३. सनितिर्लाभः, तस्मादयं तादर्थ्यचतुर्थ्या आ आदेशः, सनितये लाभायेत्यर्थः—इति वि०। सनिता दाता भवेति शेषः—इति भ०। ४. अञ्जिभिः त्वद्गुणप्रकाशकैश्छन्दोभिः—इति वि०। अञ्जिभिः छन्दोभिः। व्यज्यन्ते सिच्यन्ते वर्धन्ते देवता अमीभिरिति अञ्जयः। वाघद्भिः आवहद्भिः। यदञ्जिभिः वाघद्भिः विह्वयामहे इति छन्दांसि वा अञ्जयो वाघतः तैरेतद् देवान् यजमाना विह्वयन्ते मम यज्ञम् आगच्छत मम यज्ञमिति (ऐ० ब्रा० २।२) इति हि ऐतरेयकम्—इति भ०। अञ्जिभिः यज्ञेन यूपमञ्जद्भिः वाघद्भिः यज्ञं वहद्भिः ऋत्विग्भिः—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये सभाध्यक्षपक्षे यजुर्भाष्ये च विद्वदध्यापकपक्षे व्याख्यातः।