Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 569

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
तं꣡ वः꣢ सखायो꣣ म꣡दा꣢य पुना꣣न꣢म꣣भि꣡ गा꣢यत । शि꣢शुं꣣ न꣢ ह꣣व्यैः꣡ स्व꣢दयन्त गू꣣र्ति꣡भिः꣢ ॥५६९॥

त꣢म् । वः꣣ । सखायः । स । खायः । म꣡दा꣢꣯य । पु꣣नान꣢म् । अ꣣भि꣢ । गा꣣यत । शि꣡शु꣢꣯म् । न । ह꣣व्यैः꣢ । स्व꣣दयन्त । गूर्ति꣡भिः꣢ ॥५६९॥

Mantra without Swara
तं वः सखायो मदाय पुनानमभि गायत । शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥

तम् । वः । सखायः । स । खायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । हव्यैः । स्वदयन्त । गूर्तिभिः ॥५६९॥

Samveda - Mantra Number : 569
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः (वः) यूयम् (पुनानम्) पवित्रीकुर्वाणम् (तम्) प्रसिद्धं सोमाख्यं परमात्मानम् (अभि) अभिलक्ष्य (मदाय) आनन्दलाभाय (गायत) सामगानं कुरुत। उपासकाः तं परमात्मानम् (हव्यैः) आत्मसमर्पणैः (गूर्तिभिः२) स्तुतिभिः उद्यमैश्च। गॄ शब्दे, गूर उद्यमने, ततः क्तिन्। (स्वदयन्त) प्रसादयन्ति। स्वद आस्वादने, णिजन्तः, लडर्थे लङ्, अडागमाभावश्छान्दसः। (शिशुं न) शिशुं यथा (हव्यैः) देवपदार्थैः क्रीडनकादिभिः (गूर्तिभिः) क्रोडोद्यमनैश्च मातरः प्रसादयन्ति तद्वत् ॥४॥ अत्र श्लिष्टोपमालङ्कारः ॥४॥
Essence
आराधनेन पुरुषार्थेन च प्रसादितः परमेश्वरः पावित्र्यादिसम्पादनद्वारेणानन्दप्रदानेन चाराधकस्य हिताय जायते ॥४॥
Subject
पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१०५।१ ‘हव्यैः’ इत्यत्र ‘यज्ञैः’ इति पाठः। साम० १०९८। २. गूर्तिभिः उद्यमनैः—इति वि०। गूर्तिभिः स्तुतिभिः, गृणातेः गूर्तिः—इति भ०।