Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 566

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः । श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ॥५६६॥

इ꣡न्द्र꣢꣯म् । अ꣡च्छ꣢꣯ । सु꣣ताः꣢ । इ꣣मे꣢ । वृ꣡ष꣢꣯णम् । य꣣न्तु । ह꣡र꣢꣯यः । श्रु꣣ष्टे꣢ । जा꣣ता꣡सः꣢ । इ꣡न्द꣢꣯वः । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५६६॥

Mantra without Swara
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥

इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टे । जातासः । इन्दवः । स्वर्विदः । स्वः । विदः ॥५६६॥

Samveda - Mantra Number : 566
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुताः) अभिषुताः (इमे) एते (हरयः) दुःखहर्तारो ब्रह्मानन्दरसाः (वृषणम्) बलिनम् (इन्द्रम्) जीवात्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। किञ्च (जातासः) जाताः उत्पन्नाः ते (इन्दवः) उपासकस्य क्लेदकाः ब्रह्मानन्दरसाः (श्रुष्टे) सद्य एव। श्रुष्टीति क्षिप्रनाम, आशु अष्टीति। निरु० ६।१३। श्रुष्टे इत्यपि तत्पर्यायो बोध्यः। (स्वर्विदः) दिव्यप्रकाशस्य लम्भकाः, भवन्त्विति शेषः ॥१॥
Essence
धन्यास्ते जीवात्मानो ये परमात्मोपासनया ब्रह्मानन्दरसं प्राप्नुवन्ति ॥१॥
Subject
तत्रादौ ब्रह्मानन्दरसविषयमाह।
Footnote
१. वैदिकयन्त्रालयमुद्रितायां सामसंहितायां तु इन्द्रो देवता निर्दिष्टः। २. ऋ० ९।१०६।१ ‘श्रुष्टे’ इत्यत्र ‘श्रुष्टी’ इति पाठः। साम० ६९४।