Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 565

1875 Mantra
Devata- पवमानः सोमः Rishi- पवित्र आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्व꣢꣯हन्तः꣣ सं꣡ तदा꣢꣯शत ॥५६५॥

प꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣣शत ॥५६५॥

Mantra without Swara
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥

पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥५६५॥

Samveda - Mantra Number : 565
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ब्रह्मणः पते) ब्रह्माण्डस्य ज्ञानस्य वा अधिपते सोम परमात्मन् ! (ते) तव (पवित्रम्) पावकत्वम् (विततम्) सर्वत्र व्याप्तं वर्तते। (प्रभुः) पावित्र्यसम्पादनसमर्थः त्वम् (विश्वतः) सर्वतः (गात्राणि) शरीराणि, शरीरधारिणः इत्यर्थः, (पर्येषि) पावयितुं परिगच्छसि। किन्तु (अतप्ततनूः२) तपस्यया अतप्तशरीरः (आमः) अपरिपक्वः जनः (तत्) पवित्रत्वम् (न अश्नुते) न प्राप्नोति, (शृतासः इत्) परिपक्वाः एव जनाः। श्रा पाके निष्ठायाम् ‘शृतं पाके। अ० ६।१।२७’ इति धातोः शृ भावः। जसोऽसुगागमः। (वहन्तः) त्वां हृदये धारयन्तः सन्तः (तत्) त्वज्जन्यं पवित्रत्वम् (सम् आशत) सम्यक् प्राप्नुवन्ति ॥१२॥
Essence
ये तपस्विनः सन्ति तेषामेव हृदयान्याचरणानि च पवित्राणि जायन्ते ॥१२॥ अत्रापि सोमस्य परमात्मनस्तदानन्दरसस्य च प्राप्तिवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति षष्ठे प्रपाठके द्वितीयार्धे द्वितीया दशतिः ॥ इति पञ्चमेऽध्याये नवमः खण्डः ॥
Subject
अथ सोमस्य परमात्मनः पावकत्वं वर्णयति।
Footnote
१. ऋ० ९।८३।१ ‘वहन्तस्तत् समाशत’ इति पाठः। साम० ८७५। २. “तप्तमुद्राधारिणां वैष्णवसम्प्रदायविशेषाणां नयेऽयमेव मन्त्रः शरीरे तप्तचक्राद्यङ्कनस्य। तथा च ‘अतप्ततनूः’ शङ्खचक्रादिभिः न तप्ता तनूः अस्य स पुरुषः आमः अपरिपक्वः असंस्कृतः अत एव ‘तत्’ प्रसिद्धं कैवल्यं न अश्नुते इत्यर्थः। वस्तुतोऽस्य विनियोगो ज्योतिष्टोमे तृतीयेऽहनि”—इति सत्यव्रतसामश्रमी। एतद्विषये दयानन्दर्षिकृतसत्यार्थप्रकाशग्रन्थस्यैकादशः समुल्लासोऽपि द्रष्टव्यः।